________________
योगशास्त्रम्
द्वितीय प्रकाश
॥२५९॥
महति व्यसने स्वामी पतितो नस्तदीडशे । राघवौ शरणीकर्तुं तव द्वारेण वाञ्छति ।।७५।। द्रुतमायातु सुग्रीवः सतां सङ्गो हि पुण्यतः । तेनेत्युक्तो दूत एत्य सुग्रीवाय शशंस तत् ॥७६॥ प्रचचालाथ सुग्रीवोऽश्वानां ग्रैवेयकस्वनैः । दिशो मुखरयन् सर्वा वेगादरमदृरयन् ॥७७॥ पाताललङ्कां स पाप क्षणेनाप्युपवेश्मवत् । विराधं चोपतस्थेऽसावभ्युत्तस्थौ स चापि तम् ॥७८॥ विराधोऽपि पुरोभूय रामभद्राय तायिने । तं नमस्कारयामास तहःखं च व्यजिज्ञपत् ॥७९॥ सुग्रीवोऽप्येवमूचेऽस्मिन् दुःखे त्वमसि मे गतिः। क्षुते हि सर्वथा मृढे शरणं तरणिः खलु ॥८०॥ स्वयं दु:ख्यपि तदुःखच्छेदं रामोऽभ्युपागमत् । स्वकार्यादधिको यत्नः परकार्ये महीयसाम् ॥८१॥ सीताहरणवृत्तान्तं विराधेनावबोधितः। रामं विज्ञपयामास सुग्रीवोऽथ कृताञ्जलिः ॥८२॥ त्रायमाणस्य ते विश्वं तथा द्योतयतो रवेः। न कापि कारणापेक्षा देव बच्मि तथाप्यदः॥८३॥ त्वत्प्रसादात् क्षतारिः सन् ससैन्योऽपि तवानुगः । आनेष्यामि प्रवृत्तिं च सीताया नचिरादहम् ॥८४॥ ससुग्रीवः प्रतस्थे च किष्किन्धां प्रति राघवः। विराधमनुगच्छन्तं संबोध्य विससर्ज च ॥ ८६ ॥ रामभद्रेऽथ किष्किन्धास्कन्धावारमधिष्ठिते । सुग्रीवो विटसुग्रीवमाहास्त रणकर्मणे ॥९६॥ निनदन विटसुग्रीवोऽप्यागादाहानमात्रतः । रणाय नालसाः शूरा भोजनाय द्विजा इव ॥८७॥ दुर्द्धरैश्चरणन्यासैः कम्पयन्तौ वसुन्धराम् । तावुभावप्ययुध्येतां मत्ताविव वनद्विपौ ॥८८॥ रामः सरूपौ तौ दृष्ट्वा कोऽस्मदीयः परश्च कः। इति संशयतस्तस्थावुदासीन इव क्षणम् ।।८९॥ भवत्वेवं तावदिति विमृशन् रघुपुङ्गवः । वज्राव भिधधनुष्टङ्कारमकरोत्ततः॥९०॥ धनुष्टङ्कारतस्तस्मात्सा साहसगतेः क्षणात् ।रूपान्तरकरी विद्या हरिणीव पलायत ॥९१॥ विमोह्य मायया सर्व परदार रिरंससे । पापारोपय रे
॥३५९॥