________________
योगशास्त्रम्
द्वितीय प्रकाशा
il૯૮
क्षणायोम्नि निपतन्तौ क्षणाद्भुवि । ताम्रचूडाविवाभातां वीरचूडामणी उभौ ॥५७॥ तौ द्वावपि महाप्राणौ मिथो जेतुमनीश्वरौ । अपमृत्य च दरेण वृषभाविव तस्थतुः ॥५८॥ पुनयुदन मुग्रीवः खिन्नः खिन्नतनुस्ततः। बहिनिगत्य किष्किन्धापुरादावासमग्रहीत् ॥५९॥ तत्रैव विटसुग्रीवस्तस्थावस्वस्थमानसः। अन्तःपुरप्रवेशं तु न लेभे वालि नन्दनात् ॥६०॥ मुग्रीवो न्यश्चितग्रीवमर्थवं पर्यचिन्तयत् । अहो खीलम्पटः कूटपटुः कोऽप्येष नो द्विपन् ॥६॥ आत्मीया अप्यनात्मीया द्विषन्मायावशीकृताः। अहो बभूवुस्तदसाववस्कन्दो निजैर्हयैः ॥६२॥ मायापराक्रमोत्कृष्टः कथं वध्यो द्विषन् मया । धिग्मां पराक्रमभ्रष्ट वालिनाम्नत्रपाकरम् ॥६॥ धन्यो महावली वाली योऽखण्डपुरुषव्रतः । राज्यं तृणमिव त्यक्त्वा यश्च भेजे परं पदम् ॥६४॥ चन्द्ररश्मिः कुमारो मे बलीयान् जगतोऽप्यसौ । किं तु द्वयोरभेदज्ञः कं रक्षतु निहन्तु कम् ॥६५॥ इदं तु विदधे साधु साध्वहो चन्द्ररश्मिना । तस्य पापीयसो रुद्धं शुद्धान्ते यन्प्रवेशनम् ॥६६॥ वधाय बलिनोऽमुष्य बलीयांसं श्रयामि कम् । यद् घात्या एव रिपवः स्वतोऽपि परतोऽपि वा ॥६७॥ भूभुवःस्वस्त्रयीवीरं मरुत्तमखभञ्जनम् । भजामि विद्विषयातहेतवे किं दशाननम् ॥६९॥ असो किंतु प्रकृत्या स्त्रीलोलखेलोक्यकण्टकः । तं च मां च निहत्याशु तारामादास्यते स्वयम् ॥६९॥ ईदृशे व्यसने प्राप्ते साहाय्यं कर्तुमीश्वरः । आसीत् खरः खरतरो राघवेण हतः स तु ॥७०॥ तावेव रामसौमित्री गत्वा मित्रीकरोमि तत् तत्कालोपनतस्यापि यौ विराधस्य राज्यदौ ॥७१॥ तौ तु पाताललङ्कायामलंकर्मीणदोबलौ । विराधस्योपरोधेन तथैवाद्यापि तिष्ठतः ॥७२॥ एवं विमृश्य सुग्रीवोऽनुशिष्य रहसि स्वयम् । विराधपुर्या विश्वासभूतं दूतं न्ययोजयत् ॥७३॥ गत्वा पाताललङ्कायां विराधाय प्रणम्य सः । स्वामिव्यसनवृत्तान्तं कथयित्वाऽब्रवीदिदम् ॥७४॥
॥२५८॥