________________
॥
योगशास्त्रम्
हितोष प्रकाशा
રબા
n
॥४०॥ अन्तःपुरगृहद्वारं स ययौ यावदुत्सुकः । तावद्वयाघुटच सुग्रीवः स्ववेश्मद्वारमाययौ ॥४१॥ सुग्रीवस्य प्रवेष्टुं न द्वार प्राहरिका ददुः । अग्रे प्रविष्टो राजाऽस्ति त्वमन्योऽसीति वादिनः ॥४२॥ ततश्च सत्यमुग्रीवे स्खल्यमाने स्ववेत्रिभिः । अतुलस्तुमुलो जज्ञे मथ्यमान इवार्णवे ॥४३॥ सुग्रीवद्वितयं दृष्ट्वा सन्देहाद्वालिनन्दनः । शुद्धान्तविप्लवं आतुं तद्वारं त्वरितो ययौ ॥४४॥ शुद्धान्ते विटसुग्रीवः प्रविशन् वालिसूनुना । मार्गाद्रिणा सरित्पूर इव प्रस्खलितस्ततः ॥४५॥ अथामिलन् सैनिकानामक्षौहिण्यश्चतुर्दश । चतुर्दशजगत्सारसर्वस्वानीव सर्वतः ॥४६॥ द्वयोरपि तयोर्भेदमजानन्तोऽथ सैनिकाः- सत्यसुग्रीवतोऽऽर्दै विटमुग्रीवतोऽभवन् ॥४७॥ ततः प्रववृते युद्धं सैन्ययोरुभयोरपि । कुन्तपातै दिवं कुर्वदुल्कापातमयीमिव ॥४८॥ युयुधे सादिना सादी निषादी च निषादिना । पदातिना पदातिश्च रथिको रथिकेन च ॥४९॥ चतुरङ्गचमूचक्रविमर्दादथ मेदिनी । अवाप कम्पं मुग्धेव प्रौढप्रियसमागमात् ॥५०॥ एोहि रे परगृहप्रवेशश्वनिति ब्रुवन् । विटसुग्रीवमुग्रीवः सुग्रीवो योध्धुमाहत ॥५१॥ ततश्च विटमुग्रीवो मत्तम इव तर्जितः । ऊर्जितं गर्जितं कुर्वन् संमुखीनो युधेऽभवत् ॥५२॥ युयुधाते महायोधौ तौ क्रोधारुणलोचनौ। विदधानौ जगत्त्रासं कीनाशस्व सोदरौ ॥५३॥ तौ निशातेनिशातानि शखैः शस्त्राण्यथो मिथः । चिच्छेदाते तणच्छेदं रणच्छेकाबुभावपि ॥५४॥ शस्त्रखण्डैरुच्छलद्भिदृवे खेचरीगणः । महायुद्धे तयोवृक्षखण्डो महिषयोखि ॥५५॥ तौ छिन्नास्वावथान्योन्यममर्षणशिरोमणी । मल्लयुद्धनास्फलतां पर्वताविव जङ्गमौ ॥५६॥ उत्पतन्तौ
(१) परगृहप्रवेशे सारमेयसरश!।
॥२५॥