________________
योगशास्त्रम्
द्वितीय प्रकाशा
॥२५
॥
__ अत्रान्तरे पुमानेकः कश्चिदेत्य ननाम तौ । ताभ्यां पृष्टः स्ववृत्तान्तमेवं व्यज्ञपयच्च सः ॥२४॥ हत्वा पाता ललकेशं तातं चन्द्रोदरं मम । अश्वस्येव पदे तस्य खरं खररथोऽकरोत् ॥२५॥ गुर्वी च नष्टा मन्माता विराधं नाम मां सुतम् । अन्यत्रासत तस्याश्च कश्चिदाख्यदिदं मुनिः ॥२६॥ यदा दाशरथिर्हन्ता खरादींस्त्वत्सुतं तदा । पाताललकाधिपति करिष्यति न संशयः ॥२७॥ तदद्य समयं लब्ध्वा युष्मानस्मि समाश्रितः । पितृवेरिवधक्रीतं पत्तिं जानीथ मां निजम् ॥२८॥ रामस्ततोऽदात्पाताललङ्कां तस्मै महाभुजः। फलन्ति समयज्ञानां स्वामिनः स्वयमेव हि ॥२९॥ तं च स्थापयितुं तत्र गच्छन् रामः सलक्ष्मणः। हृतविद्यं पुरोऽपश्यद्भस्थं भामण्डलानुगम् ॥३०॥ अथ दाशरथी नत्वा स वृत्तान्तं व्यजिज्ञपत् । आत्मनश्च जटायोश्च सीताया रावणस्य च ॥३१॥ अथ पाताललङ्कायां ययौ रामः सलक्ष्मणः । सत्यसन्धो विराधं च पि (पै)व्ये राज्ये न्यवेशयत् ॥३२॥
इतश्च साहसगति म विद्याधराग्रणी । खे भ्रमनधिकिष्किन्धाधित्यकं समुपाययौ ॥३३॥ ययौ तदा च किष्किन्धाधिपतिः क्रीडितुं बहिः । सुग्रीवः सपरीवारो राज्ञां हि स्थितिरीदृशी ॥३४॥ ददर्श साहसगतिस्तदा चान्तःपुरस्थिताम् । सुग्रीवस्य प्रियां नाम्ना तारां तारविलोचनाम् ॥३५॥ तस्यां लावण्यकूलिन्यां स चिक्रीडिपुरुच्चकैः । इयेष नान्यतो गन्तुं धर्मा इव कुब्जरः ॥३६॥ सोऽस्थात्तथैव तत्रैव निषिद्धगमनःक्षणात् । तां मृता॑मिव कामाज्ञामुल्लङ्घयितुमक्षमः ॥३७॥ रमणी रमणीयेयं रमणीया मया कथम् । इतीच्छाव्याकुल: सोऽप्युपायं क्षणमचिन्तयत् ॥३८॥ सहसा साहसगतिस्ततः सुग्रीवरूपताम् । स कुशीलत्वकुशलः कुशीलव इवाददे ॥३९॥ अथासौ विटमुग्नीवः सुग्रीव इति मानिभिः । अङ्गरक्षरस्खलितः सुग्रीवभवनेऽविशत्
॥२५॥