________________
योगशास्त्रम् ॥२५॥
द्वितीय प्रकाशा
वजित्वा परतस्ततः । सा साक्षादिव सौमित्रिः सिडनादं विनिर्ममे ॥७॥ तं श्रुत्वा मैथिली तत्र मुक्त्वा रामो ययौ द्रुतम् । महतामपि मोहाय भवेन्माया हि मायिनाम् ॥८॥ अथोत्तीर्य दशग्रीवः सीतामारोप्य पुष्पके । त्वां हरन् रावणोऽस्मीति कथयन्नभसा ययौ ॥९॥ हा नाथ विद्विषन्माय राम हा वत्स लक्ष्मण । हा तातपाद हा भ्रातर्भामण्डल महाभुज ॥१०॥ सीता वो हियतेऽनेन काकेनेव बलिश्छलात् । एवं सीता रुरोदोच्चै रोदयन्तीव रोदसीम् ॥११॥ मा भैषीः पुत्रि मा भैषी करे यासि निशाचर । रोषादिति वदन् दुराज्जटायुस्तमधावत ॥ ॥१२॥ भामण्डलानुगश्चैकः कोऽपि विद्याधराग्रणीः । डुढौके दशकण्ठं रे तिष्ठ तिष्ठेति तर्जयन् ॥१॥ जटायुविकटाटोपकरजबोटिकोटिभिः । प्रणिहन्तुं दशग्रीवोरसि प्रववृते ततः ॥१४॥ रे जीवितस्य तृप्तोऽसि जरद्धेति विब्रुवन् । दशास्याश्चन्द्रहासासिमाकृष्य निजघान तम् ॥१५॥ तस्य विद्याधरस्यापि विद्या दशमुखोऽहरत् । निकृत्तपक्षः पक्षीव सोऽपविद्योऽपतद्धवि ॥१६॥ रावणोऽगात्ततो लकां सीतां चोपवनेऽमुचत तां प्रलोभयितुं तत्र त्रिजटामादिदेश च ॥१७॥ रामस्यापि हतामित्रः सौमित्रिः समुखोऽभवत् । आर्यामार्य ! विमुच्यैकां किमागा इति चाब्रवीत् ॥१८॥ आहूतः सिंहनादेन तव वैधुर्यलक्ष्मणा । लक्ष्मणाहमिहायातो व्याजहरेति राघवः ॥१९॥ लक्ष्मणोऽप्यपदच्चक्रे सिंहनादो मया न हि । श्रुतश्चार्येण तन्नूनं वयं केनापि वञ्चिताः ॥२०॥ अपनेतुं सत्यमार्यामपनीतोऽस्युपायतः । सिंहनादस्य करणे शके स्तोकं न कारणम् ॥२१॥ ब्रुवन् साध्विति रामोऽपि स्वस्थानेऽगात्सलक्ष्मणः। सीतामपश्यन् क्यासीति विलपन्मूच्छितोऽपतत् ॥२२॥ तं लब्धसंज्ञं सौमित्रिरित्यूचे रुदितैरलम् । पौरुषं पुरुषाणां हि व्यसनेषु प्रतिक्रया ॥२३॥
॥२५५॥