________________
योगशास्त्रम्
॥२५४॥
Cha
ममाहूत्यै कुर्या इत्वन्वशात् स तम् ||८९ || रामाज्ञा प्रतिपद्योच्चैर्लक्ष्मणोऽथ धनुः सखा । गत्वा प्रववृते हन्तुं स तांस्तार्क्ष्य इवोरगान् ॥९०॥ प्रवर्द्धमाने तद्युद्धे स्वभर्तुः पाणिवृद्धये । गत्वा त्वरितमित्यूचे रावणं रावणस्त्रसा ॥९१॥ आयातौ दण्डकारण्ये मनुष्यौ रामलक्ष्मणौ । अनात्मज्ञौ निन्यतुस्ते यामेयं यमगोचरम् ॥९२॥ श्रुत्वा स्वसृपतिस्ते तु सानुजः सबलो ययौ । तत्र सौमित्रिणा सार्द्धं युद्धयमानोऽस्ति संप्रति ॥९३॥ कनिष्ठभातृवीर्येण स्ववीर्येण च गर्वितः । परतोऽस्ति स्थितो रामो विलसन् सीतया सह ॥ ९४ || सीता च रूपलावण्यश्रिया सीमेव योषिताम् । न देवी नोरगी नापि मानुष्यन्यैव काऽपि सा ॥ ९५|| तस्या दासीकृताशेषसुरासुरवधूजनम् । त्रैलोक्येऽप्यप्रतिच्छन्दं रूपं वाचामगोचरम् ||१६|| आसमुद्रममुद्राझ ! यानि कान्यपि भूतले । तवैवार्हन्ति रत्नानि तानि सर्वाणि बान्धव ! ॥ ९७ ॥ दृशामनिमिषीकारकारणं रूपसम्पदा । स्त्रीरत्नमेतद्गृहणीया न चेत्तन्नासि रावणः ॥९८॥ आरुह्य पुष्पकमयादिदेश दशकन्धरः । विमानराज ! त्वरितं याहि यत्रास्ति जानकी ॥९९॥ ययौ चात्यन्तवेगेन विमानमनुजानकि । स्पर्द्धयेव दशग्रीवमनसस्तत्र गच्छतः ॥ १०० ॥ दृष्ट्वापि रामादत्युग्रतेजसो दशकन्धरः । विभाय दुरे तस्थौ च व्याघ्रो हुतवहादिव ॥ १॥ इति चाचिन्तयदितः कष्टं रामो दुरासदः इतश्च सीताहरणमितो व्याघ्र इतस्तटी ||२|| विमृश्य च ततो विद्यामस्मार्षोदवलोकनीम् । उपतस्थे च सा मड्क्षु किङ्कव कृताञ्जलिः ||३|| ततश्वाज्ञापयामास तत्कालं तां दशाननः । कुरु साहाय्यमहाय मम सीतां हरिष्यतः ||४|| साऽवोचद्वासुकेम लिरत्नमादीयते सुखम् । न तु रामसमीपस्था सीता देवासुरैरपि ॥५॥ किन्त्वसावस्ति यायाद् येनैष लक्ष्मणम् । तस्यैव सिंहानादेन सङ्केतो ह्यनयोरयम् || ६ || एवं कुर्विति तेनोक्ता
उपायः
Short HORSETO CO
द्वितीय
प्रकाशः
॥२५४॥