________________
पोगशास्त्रम्
द्वितीय प्रकाश
॥२५३॥
तस्थुषस्तत्र रामस्य फलाद्यर्थ बहिर्गतः । ददर्श लक्ष्मणः खड्गमाहीच्च कुतूहलात् ॥७३॥ तत्तीक्ष्णत्वपरीक्षार्थ तत्क्षण तेन लक्ष्मणः । अभ्यर्णस्थां वंशजाली नाललावं लुलाव च ॥७४|| वंशजालान्तरस्थस्य कृतं कस्यापि देहिनः । अर्थक मौलिकमलं सोऽपश्यत्पतितं पुरः ॥७५॥ अयुध्यमानोऽशस्त्रश्च पुमान् कोऽपि हतो मया । अमुना कर्मणा धिग्मामित्यात्मानं निनिन्द सः ॥७६॥ गत्वा च रामभद्राय तदशेषमचीकथत् । असिं च दर्शयामास रामोऽप्येवमभाषत ॥७७॥ आसावसिः सूर्यहासः साधकोऽस्य त्वया हतः । अस्य सम्भाव्यते नूनं कश्चिदुत्तरसाधकः ॥७८॥ अत्रान्तरे दशग्रीवस्वसा चन्द्रणखाऽभिधा । खरभार्या ययौ तत्र ददर्श च हतं सुतम ॥७९॥ कासि हा वत्स शम्बूक शम्बूकेति रुदत्यसौ। अपश्यल्लक्ष्मणस्यांघ्रिन्यासपक्ति मनोहराम ॥८॥ मम सूनुहतोऽनेन यस्येयं पदपद्धतिः । पदपक्तिपथेनैव ततश्चन्द्रणखाऽऽययौ ॥८॥ यावत्किश्रिदगात्तावत्ससीतालक्ष्मणं पुरः। नेत्राभिरामं रामं साऽपश्यत्तरुतले स्थितम् ॥८॥ निरीक्ष्य रामं सा सद्यो रिरंसाविवशाऽभवत् । कामावेशः कामिनीनां शोकोद्रेकेऽपि कोऽप्यहो ॥८॥ स्वं रूपं
चारु कृत्वाऽथ रन्तुं रामस्तयाऽर्थितः । हसन्नचे सभार्योऽहमभायं भज लक्ष्मणम् ॥८४॥ तयाऽर्थितस्तथैवैत्य | लक्ष्मणोऽप्येवमब्रवीत् । आयं गता त्वमार्येव तदलं वार्तयाऽनया ॥८५॥ सा याश्चाखण्डनात्पुत्रवधाच्च
रुषिताऽधिकम् । आख्यद्गत्वा खरादीनां तत्कृतं तनयक्षयम् ॥८६॥विद्याधरसहस्रेस्ते चतुर्दशभिरावृताः । ततोऽभ्येयुरुपद्रोतुं रामं शैलमिव द्विपाः ॥८७! किमार्यः सत्यपि मयि योत्स्यते स्वयमीदृशैः । इति राममयाचिष्ट तेषां युद्धाय लक्ष्मणः ॥८८|| गच्छ वत्स ! जयाय त्वं यदि ते सङ्कटं भवेत् । सिंहनादं