________________
योगशाखम् ॥२५२॥
द्वितीय प्रकाशा
इतश्चासीदयोध्यायां पुर्यामेकमहारथः । राजा दशरथो नाम धाम निःसीमसम्पदाम् ॥ ५६ ।। पल्यः कौशल्याकैकेयीसुमित्रासुप्रभाभिधाः । प्रियाश्चतसस्तस्यासन्मूर्त्ता इव दिशां श्रियः ॥५६॥ कौशल्या सुषुवे राम कैकेयी भरतं सुतम् । सुमित्रा लक्ष्मणं नाम शत्रुघ्नं सुप्रभाऽभिधा ॥५७॥ रामलक्ष्मणभरतशत्रुध्नास्तस्य रेजिरे। चत्वारः सूनवो दन्ता इव त्रिदशदन्तिनः ॥५८|| जनकस्य सुतां सीतां भामण्डलसहोदरीम् । कार्मुकारोपणपणां रामभद्र उपायत ॥५९|| जिनेन्द्रबिम्बस्नपनजलं मङ्गलहेतवे । चतसृणां च राज्ञीनां नृपः औषयदन्यदा ॥६॥ तत्तोयमागतं पश्चादिति रोषमुपेयुषीम् । अनुनेतुं स्वयं राज्ञी सुमित्रामगमन्नृपः ॥६१।। घण्टान्तालिकालोलदशनं चलिताननम् । श्वेतसङ्गरोमाणं भ्ररोमच्छन्नलोचनम् ॥६२॥ पदे पदे प्रस्खलन्तं याचमानं च पश्चताम् । गतस्तत्र ददर्शकं जरत्कन्चुकिनं नृपः ॥६३॥ तं दृष्ट्वाऽचिन्तयद्राजा स्मो यावन्नेदृशा वयम् । चतुर्थपुरुषार्थाय तावद्धि प्रयतामहे ॥६४॥ व्रतं जिघक्षुः स ततो राज्ये स्थापयितुं निजे । अहायाहाययामास तनयौ रामलक्ष्मणौ ॥६५॥ भरतस्य जनन्याऽथ कैकेय्या मन्थरागिरा । वरौ प्राकप्रतिपन्नौ स याचितः सत्यसङ्गरः ॥ ६६ ॥ वरेणार्थित एकेन स तदा रघुपुङ्गवः । प्रतिपन्नस्थितो राज्यं भरताय समार्पयत् ॥६७॥ चतुर्दशसमा यावद्वनवासाय चादिशत् । ससीतालक्ष्मणं रामं वरेणान्येन चार्थितः ॥६८॥ ससीतालक्ष्मणो रामः सद्योऽगाद्दण्डकावनम् । पञ्चवटयाश्रमे चावतस्थेऽसौ सत्यसङ्गरः॥६९॥ तत्रायातौ चारणी राघवाभ्यां नमस्कृतौ । सीताऽऽनर्चातिथीभृतौ श्रद्धालुः शुद्धभिक्षया ॥७०॥ ततो गन्धोदकैर्वृष्टिरमरैर्विदधे तदा । तद्गन्धादाययौ तत्र जटायुर्नाम गृध्रराट् ॥७१॥ तौ मुनी देशनां तत्र चक्रतुः स व्यबोधि च । संजातजातिस्मरणोऽवतस्थे चानुजानकि ॥७२॥
॥२५२॥