________________
योगशास्त्रम्
॥२५॥
द्वितीय प्रकाशा
सिंहनादैर्नादयन् रोदसी अपि । पितुः समर्पयामास मूर्त जयमिवाथ तम् ॥३७॥ प्रबलारक्षगुप्तायां तं गुप्तौ रावणोऽक्षिपत् । द्वयं विधत्ते हि बली निहन्त्यपि वहत्यपि ॥३८॥ सोमो दण्डधरः पाशी कुबेरश्च समेत्य ते। दशास्यमिन्द्रग्रहणात्क्रुद्धा रुरुधिरे ततः ॥३९॥ जितकाशी दशास्योऽपि भूत्वोत्साहाच्चतुर्गुणः । योधयामास संग्रामचतुरश्चतुरोऽपि तान् ॥४०॥ सोऽभाक्षीदण्डिनो दण्ड चुक्षोद गदिनो गदाम् । पाशिनोऽत्रोटयत्पाशान् धनुः सोमस्य चाच्छिदत् ॥४१॥ अपातयत्प्रहारैस्तान्महेभः कलभानिव । अग्रहीद्रावणो बध्ध्वा वैरिविद्रावणः क्षणात् ॥४२॥ सप्ताङ्गराज्यसहितमुपादाय पुरन्दरम् । पाताललङ्कां लकेशो विजेतुमगमत्ततः ॥ ४३ ॥ हत्वा चन्द्रोदरं तत्र तद्राज्यं स्वां च सोदरीम् । सोऽदात्खराय त्रिशिरोषणज्यायसे ततः ॥४४॥ चन्द्रोदरस्य निःशेष खरः खरबलोऽयहीत् । एका तु गुर्विणी राज्ञी प्रणश्य कचिदप्यगात् ॥४५॥ ततः पाताललङ्कातो लङ्कां लङ्कापतिर्ययौ । तत्र निष्कण्टकं राज्यं चक्रे विष्टपकण्टकः॥४६॥ सोऽनेयुः पुष्पकारूढः क्रीडयेतस्ततो भ्रमन् । मरुत्तभूपप्रारब्धमीक्षाश्चक्रे महामखम् ॥४७॥ ततो विमानादुत्तीर्णो दशास्यस्तद्दिदृक्षया । आनर्चे भूभुजा तेन पायसिंहासनादिना ॥४८॥ ततो मरुत्तभूपालं जगादेवं दशाननः । अरे किमेष क्रियते नरकाभिमुखैमखः ॥४९॥ धर्मः प्रोक्तो ह्यहिंसातः सर्वखिजगद्धितः । पशुहिसात्मकाद्यज्ञात्स कथं नाम जायते ॥५०॥ लोकद्वयारिं तद्यज्ञं मा कार्षीश्चेत्करिष्यसि । मद्गुप्ताविह ते वासः परत्र नरके पुनः॥५१॥ विससज मखं सद्यो मरुत्तनृपतिस्ततः। अलङ्गचा रावणाज्ञा हि विश्वस्यापि भयङ्करा ॥५२॥ प्रभञ्जन इवौजस्वी मरुत्तमखभञ्जनः। ततोऽगाच्चैत्ययात्रार्थ सुमेर्वष्टापदादिषु।।५३।। विधाय यात्रां चैत्येषु कृत्रिमाकृत्रिमेषु सः । आजगाम निजं धाम पुनरेव दशाननः॥५४॥
|॥२५१॥