________________
योगशास्त्रम्
द्वितीय प्रकाशा
॥२५०
इव द्रुतम् ॥ १९ ॥ श्रुत्वा रावणमायान्तमिन्द्रोऽपि द्रुतमभ्यगात् । पुमां मैत्र्यां च वैरे च संमुखोत्थानमादिमम् ॥ २०॥ दूरादपि दशास्येन प्रहितो महितौजसा । अथ दुताऽभ्युपेत्येन्द्रमित्युवाच ससौष्ठवम् ॥ २१॥ ये केचिदिह राजानो विद्यादोर्वीयदपिणः । तैरुपेत्योपायनाद्यैः पूजितो दशकन्धरः ॥ २२ ॥ दशकण्ठस्य विस्मृत्या भवतश्चाजवादयम् । इयान् कालो ययौ तस्मिन् भक्तिकालस्तवाधुना ॥ २३॥ भक्तिं दर्शय तत्तस्मिन् शक्ति वा दर्शयाधुना । भक्तिशक्तिविहीनश्चेदेवमेव विनश्यसि ॥ २४ ॥ इन्द्रोऽपि निजगादेवं वराकैः पूजितो नृपः। रावणस्तदयं मत्तः पूजां मत्तोऽपि वाञ्छति ॥ २५ ॥ यथा तथा गतः कालो रावणस्य सुखाय सः । कालरूपस्त्वयं कालस्तस्येदानीमुपस्थितः ॥२६॥ गत्वा स्वस्वामिनो भक्ति शक्ति वा मयि दर्शय । स भक्तिशक्तिहीनश्वेदेवमेव विनश्यति ॥२७॥ दुतेनागत्य विज्ञप्ते रावणः क्रोधदारुणः । चचालानन्तसैन्योर्मिः क्षयोद्धान्त इवाणवः ॥ २८॥ तयोर्बलानामन्योऽन्यं संफेटः शस्त्रवर्षिणाम् । संवर्तपुष्करावर्त्तवारिदानामिवाभवत् ॥ २९ ॥ रावणं रावणिर्नत्वा युद्धायेन्द्रमथाहत । रणक्रीडासु वीरा हि नाग्रं ददति कस्यचित् ॥३०॥ ततश्चैकाङ्गविजयाकारक्षिणाविन्द्ररावणी । सैन्यान्यपास्यायुध्येतां द्वन्द्वयुद्धेन दुर्द्धरौ ॥ ३१ ॥ मिथः प्रतिहतास्त्रौ तौ रणपारयियासया। युयुधाते नियुद्धेन मदान्धौ सिन्धुराविव ॥ ३२ ॥ रावणिः कीमधोऽथेन्द्र ऊर्ध्वमिन्द्रोऽथ रावणिः। नालक्ष्यत तयोर्व्यक्तिर्वेगाद्विपरिवर्तिनोः ॥ ३३॥ विजयश्रीः क्षणेनेन्द्रे मेघनादे क्षणेन च । यातायातं व्यधानीतेवोभयोरपि भीमयोः ॥ ३४ ॥ असौ मशक इत्यस्थाद्यावद्गर्वेण वज्रभित् । तावत्सवौंजसा मेघनादस्तं समुपाद्रवत् ।३५। पातयित्वा झगित्येव तं बबन्ध दशास्यसूः । जिगीषूणां जये हेतुः प्रथमो द्याशुकारिता ॥ ३६ ॥ मेघनादः
॥२५०