________________
योगशास्त्रम् ॥२४॥
द्वितीय प्रकाशा
स्तस्यां पुलस्त्यकुलकौस्तुभः । अजायत महावी? राषणो विश्वरावणः ॥२॥ अभूतां भ्रातरौ तस्य निःसीमस्थामशोभिनौ। अपराविव दोस्तम्भौ कुम्भकर्णविभीषणौ ॥३॥ देवतामिव कुलस्य स्वपूर्वपुरुषार्जिताम् । गृहे नवमहारत्नखजं सोऽपश्यदन्यदा ॥४॥ श्रूयन्ते द्वादशादित्या नवादित्या इमे पुनः। दृश्यन्ते कथमित्येतदवृद्धान् पप्रच्छ तत्र सः॥५॥ अथाचचक्षिरे तस्मै त्वत्पूर्वपुरुषैः पुरा । वरलब्धा महासाराऽनयेयं रत्नमालिका ॥६॥ इमां क्षिपेत यः कण्ठे स्यात्सोऽर्द्धभरतेश्वरः। इत्याम्नायात्तवाम्नाये पूज्यते पूर्वजैरसौ ॥७॥ ततस्तां सोऽक्षिपत्कण्ठे तद्रत्नेषु नवस्वपि । सक्रान्तास्यतया चासौ दशास्य इति पप्रथे ॥ ८॥ ततो जनैर्जयजयेत्यारावैरभिनन्दितः। सोऽभान्मूर्त इवोत्साहो जगद्विजयहेतवे ॥९॥ तस्यानवद्या विद्यास्ताः प्रज्ञप्तीप्रमुखाः सदा । असाध्यसाधनप्रौढाः पार्श्व सेना इवावसन् ॥ १०॥ ततो भरतवर्षाः स एकग्रामलीलया । दःसाधं साधयामास दोःकडून त्वपूर्यत ॥ ११॥ आसीदितश्च वैताढयगिरौ विद्याधरेश्वरः। इन्द्रनामा पूर्वजन्मानुभूतेन्द्रपदस्थितिः ॥ १२ ॥ विश्वेश्वर्यबलोद्रेकादिन्द्रत्वाभ्यासतोऽपि च । इन्द्रमात्मानमेवायममंस्तेन्द्रं तु नापरम् ।१३। शचीति स स्वमाहिषीं स्वमखं वज्रमित्यपि । पट्टेभमैरावण इत्यश्वमुच्चैःश्रवा इति ॥ १३ ॥ सारथिं मातलिरिति चतुरोऽन्यान्महाभटान् । सोमो यमः पाशधरः कुबेर इति चाभ्यधात् ॥ १५॥ मन्यमानस्तृणायान्यानिन्द्रमन्यः स दोर्मदी । नाजीगणद्रावणमप्यत्यन्तरणदारुणम् ॥ १६ तस्मै ततः प्रकुपितः कृतान्त इव दारुणः। रावणः श्रावणाम्भोदगर्जद्गजबलोऽचलत् ॥ १८॥ विद्याबलात्ससैन्योऽपि लङ्घयामास सोऽर्णवम् । विद्याधरास्तुल्ययाना सुव्यम्भसि नभस्यपि ॥ १८ ॥ स दिशश्छादयन् सैन्यवात्योधृत रजश्चयैः । वैताढ्यं प्राप कल्पान्तमहावात
॥२४॥