________________
योगशास्रम्
द्वितीय प्रकाशा
ll૨8ા
खदाररक्षणे यत्नं विदधानो निरन्तरम् । जाननपि जनोदुःखं परदारान् कथं व्रजेत् ॥९॥
जाननपि अनुभवन्नपि, दुःखं मनःपीडां, परदारप्रसङ्गे, परदाराः परेषां दाराः, परदाराः अतः स्वदारप्रसक्तेषु परेषु दुःखमनुभवत्येव । अत्र हेतुमाह । स्वरक्षणे, स्वदारकलत्ररक्षणे यत्नमादरं, भित्तिवरण्डकपाकारणाहरिका दिभिर्विदधानः कुर्वन् , निरन्तरं दिवानिशं, स्वदाररक्षणपरिक्लेशशाली जनो जानात्येव स्वस्मिन् दुःखं इत्यात्मानुभवेन परेष्वपि दुःख पश्यन् कथं परदारान् व्रजेत् ? ॥९८॥
आस्तां परस्त्रीषु रमणं रमणेच्छाऽपि महतेऽनयेति आहपरस्त्रीविषये रमणाभावेऽपि रिंसामात्रेण हेतुना, दशकन्धरो रावणो, नरकं प्राप इति पारलौकिकं फलम् । ऐहिकमाह-कृता कुलक्षयं, यद्यपि कुलक्षयस्तस्य रामादिभिः कृतो न तेन, तथापि तदीयपरदाररिरंसापूर्वकत्वादिभिस्तत्त्वतस्तत्कृत उच्यते । ननु पारलौकिकं फलं नरकगमनरूपमास्तां, ऐहलौकिकं तु बलवतां कुतस्त्य भवेदित्याह। विक्रमाक्रान्तविश्वोऽपि, न हि दशकन्धरादन्यो बलवान् , यो विक्रमेण विश्वमप्याक्रान्तवान् सोऽपि यद्यनर्थमश्नुते तदा परस्य का मात्रेति ॥९९॥
अयं चार्थः सम्प्रदायगम्यः, स चायम् - अस्ति त्रिकूटशिरसि शिरोमणिरिव क्षितेः । रक्षोद्वीपे हिरण्याङ्का लङ्केति प्रथिता पुरी ॥१॥ विद्याधरनृप
॥२४॥