SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ારકા कृत्रिममुपचरितं स्नेहं प्रेम, परमार्थतस्तु निःस्नेहां गणिकां वेश्यां त्यजेत् । एवं तावत्स्वदारसन्तुष्टस्य पण्याङ्ग— नागमने दोषाः प्रतिपादिताः ॥९२॥ इदानीं परदारगमनदोषानाह नांसक्त्यो सेवनीया हि स्वदारा अप्युपासकैः । आकरः सर्वपापानां किं पुनः परयोषितः ॥ ९३ ॥ सर्वविरतिलालसः खलु देशविरतिपरिणाम इति गार्हस्थ्येऽपि वैराग्यातिशयादुपासकैरप्रतिषिद्धाः स्वदारा अध्यासत्या गर्द्धनेन न सेवनीयाः, किं पुनः परयोषितः ? ता अत्यन्तमसेवनीया इत्यर्थः यत आकरः खानिः सर्वपापानां मायामृषावादादीनाम् हि शब्दो यस्मादर्थे, यस्मात् स्वदारानपि नासक्त्या सेवन्ते उपासकाः, ततः कथं परदारेषु प्रसजेयुरित्यर्थः ॥ ९३ ॥ परस्त्रीणां पापकारित्वमेव दर्शयति स्वपति या परित्यज्य निस्त्रपोपपति भजेत् । तस्यां क्षणिकचित्तायां विश्रम्भः कोऽन्ययोपिति ॥ ९४ ॥ तस्यां क्षणिकचित्तायां चलितचित्तायामन्ययोषिति, को विश्रम्भः को विश्वासः ? न कश्चिदित्यर्थः । विश्रम्भाधीनं च सुखं तदपि नास्तीत्यर्थः । या किं, या स्वपति देवतारूपं भर्तृदेवता हि खियः' इति श्रुतेः, परित्यज्य पाणिगृहीत्यपि त्यक्त्वा, निखपा लज्जारहिता, त्रपा हि भूषणं खीणाम्ः, उपपतिं पत्यन्तरं भजेत् ॥९४॥ इदानीं परस्त्री प्रसक्तोऽनुशिष्यते द्वितीय प्रकाशः મારા
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy