________________
योगशाखम्
द्वितीय प्रकाशा
ર
क्तत्वात, एवंविधं वेश्यानां बदनं कथुम्बेन कश्चिच्चेतनश्चुम्बेदित्यर्थः। उच्छिष्टमिव भोजनमित्युपमानमनेकवि
टचुम्बितवेश्यावदनस्योपमेयस्य । अथवा मांसमिश्रत्वं सुरामिश्रत्वं चोच्छिष्टभोजनेऽपि योज्यम् ।।८९॥ तथा॥ अपि प्रदत्तसर्वस्वात् कामुकात् क्षीणसम्पदः। वोसोऽप्याच्छेत्तमिच्छन्ति गच्छतः पण्ययोषितः।९०।
प्रदत्तसर्वस्वादपि महाधनावस्थायां, पुण्यक्षयात्क्षीणसम्पदः कामुकात्तत एव गच्छतः स्वगृहं प्रति, वासोऽपि परिधानवस्त्रमपि, आच्छेत्तं बलाद ग्रहीतुमिच्छन्ति, पण्यं मूल्यं तत्प्रधाना योषितो वेश्या, अनेन कृतघ्रत्वं तासामाह । यदाह
उपचरिताऽप्यतिमात्र प्रकटवधुः क्षीणसम्पदः पुंसः । पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि॥१॥९॥ तथा| न देवान गुरुनापि सुहृदो न च बान्धवान् । असत्सङ्गरतिनित्यं वेश्यावश्यो हि मन्यते।९१
वेश्यावश्यः पुमान देवादीन्मन्यते, कुतः असत्सङ्गरतिनित्यं असद्भिविटादिभिः सङ्गो असत्सङ्गस्तत्र रतिर्यस्य । वेश्यावश्यस्य हि सुलभा एवासत्सङ्गाः ॥९१॥ तथा| कुष्टिनोऽपि स्मरसमान् पश्यन्ती धनकाङ्क्षया । तन्वन्ती कृत्रिमस्नेहं निःस्नेहां गणिकां त्यजेता __ कुष्ठिनः कुष्ठिरोगिणोऽप्यत्यन्तमनुपादेयान्, स्मरसमान् कन्दर्पतुल्यान् , धनकारक्षया हेतुभूतया पश्यन्ती, महत्या प्रतिपत्त्या प्रतिपादयन्ती, न च स्नेहमन्तरेण कुष्ठिनोऽपि सकाशाद्धनावाप्तिरिति । तन्वन्तीं विस्तारयन्ती,
॥२४॥