________________
योगशास्त्रम्
॥२४४॥
भवस्य संसारस्याङ्गकुरस्येव बीजं तत्कारणत्वात्संसारस्य, नरकद्वारं नरकप्रवेशः, तत्र यो मार्गः पन्थास्तत्र दीपिकेव दीपिका तत्प्रकाशकत्वात् शुचां शोकानां वल्लीनामिव कन्दस्तत्प्ररोहहेतुत्वात्, कले: कलहस्य तरोवि मूलं पादो वृद्धिहेतुत्वात्, दुःखानां शरीरमानसानां लवणादीनामिव खानिराकरस्तत्समुत्थत्वात् दुःखानां काऽसौ ? अङ्गना । एवं तावद्यतिधर्मानुरक्तं गृहस्थं प्रति सामान्येन मैथुनदोषाः खीदोषाश्वोक्ताः ||८७||
सम्प्रति स्वदारसन्तुष्टान् गृहस्थानधिकृत्य साधारण स्त्रीदोषाः श्लोकपञ्चकेनोच्यन्तेमनस्यन्यद्वचस्यन्यत्क्रियायामन्यदेव हि । यासां साधारणस्त्रीणां ताः कथं सुखहेतवः ॥ ८८॥
मनसि चित्तेऽन्यत् वचःक्रिययोर्विलक्षणं वचसि वचनेऽन्यत् मनः क्रिययोर्विलक्षणं, क्रियायां चेष्टितेऽन्यत् वाङ्मनसोर्विसंवादि, यासां साधारणस्त्रीणां वेश्यानां ता विसंवादिप्रेमाणः कथं सुखस्य विश्वासैकनिबन्धनस्य हेतवः १ यदाह
अन्यस्मै दत्तसङ्केता याचतेऽन्यं स्तुते परम् । अन्यचित्ते परः पार्श्वे गणिकानामहो नरः || १॥८८॥
तथा
मांसमिश्रं सुरामिश्रमनेकविटचुम्बितम् । को वेश्यावदनं चुम्बेदुच्छिष्टमिव भोजनम् ॥ ८९ ॥ मांसेन जलस्थलखचारिजीवजाङ्गलेन मिश्रमामगन्धि, मांसादित्वाद्वेश्यानां सुरया काष्ठपिष्टादिमय्या मादिरया मिश्र व्यास, सुरापाणप्रसक्तत्वात् । अनेक विटैर्बहुभिर्विटैरित्यर्थः, चुम्बितमास्वादितम् प्रायो विटास
द्वितीय
प्रकाशः
રા