________________
योगशास्त्रम्
द्वितीय प्रकाशा
॥२४३॥
स्वभावकुटिलचरित्राणां दुश्चरित्रस्य दुष्टचेष्टितस्य, पारं पर्यन्तः, प्राप्तुं पार्यत इति ॥८५॥
दुश्चरित्रमेवाह-- नितम्विन्यः पतिं पुत्र पितर भ्रातरं क्षणात् । आरोपयन्त्यकार्येऽपि दुर्वृत्ताः प्राणसंशये॥८६
नितम्बिन्य इति योवनोन्माददर्शनार्थम् । अत एव स्त्रीति नोक्तम् । दुवृत्ता दुष्टशीला:, अकार्येऽपि प्रयोजनमन्तरेणापि, अथवाऽकार्येऽल्पे प्रयोजने नबोऽल्पार्थत्वात्, प्राणसंशये प्राणसन्देहे उपलक्षणं चैतत् । प्राणनाशेऽपि आरोपयन्ति आरोहयन्ति । कमित्याह-पति भर्तारम् । सूर्यकान्तेव प्रदेशिराजम् । यदाह
भज्जा वि इन्दियविगारदोसनडिया करेइ पइपावम् । जह सो पएसिराया सूरियकताइ तह वहिओ ॥१॥ पुत्रं तनयम् । चुलनीव ब्रह्मदत्तम् । यदाहमाया नियगमइविगप्पियम्मि अत्थे अपूरमाणम्मि । पुत्तस्स कुणइ वसणं चुलणी जह बंभदत्तस्स ॥२॥ पितरं जनकं, भ्रातरं सोदरम् । जीवयशा इव जरासन्धं, कालादींश्च भ्रातृन् ॥८६॥
अत एवभवस्य बीजं नरकद्वारमार्गस्य दीपिका । शुचां कन्दः कलेमलं दुःखानां खानिरङ्गना॥८७॥
(१) भार्याऽपि इन्द्रियविकारदोषनटिता करोति पतिपापम् । यथा स प्रदेशिराजः सूर्यकान्तया तथा वधितः॥१॥ (२) माता निजकमतिविकल्पिते अर्थे अपूर्यमाणे । पुत्रस्य करोति व्यसनं चुलनी यथा ब्रह्मदत्तस्य ॥२॥
॥२४३॥