________________
योगशास्त्रम्
द्वितीय प्रकाशा
પરશો
अयमर्थ:-भवतु कामज्वरोपशमहेतुमैथुनं परं नरकहेतुत्वान प्रशस्यम् ॥८२॥
अपि च वीसम्बन्धनिबन्धनं, विधुवनं स्त्रियश्च स्मृता अपि सकलगुणगरिमविघातहेतव इत्याहसतामपि हि वामभूर्ददाना हृदये पदम् । अभिरामं गुणग्राम निर्वासयति निश्चितम् ॥८३
सतामपि हि महात्मनामपि वामभ्रविरचितलोचनविकारा, हृदये पदं ददाना स्मृतिमात्रेणापि सन्निधापिता, अभिरामं रमणीय, गुणग्राम गुणसमूह, निर्वासयति उद्वासयति श्लेषच्छाया चेयम् । यथा कुनियोगी कश्चिद्देशमध्ये पदं ददान एव रक्षितव्यान् ग्रामान् लोभमोहादिनोद्वासयति, एवं हृदये लब्धपदा कामिन्यपि पालनीयं गुणग्राममुच्छेदयति । अथवा सतामपि गुणग्राम सतामेव हृदये पादं दवा वामभ्रनिर्वासयति ॥८३॥
हृदयसन्निधापनमपि स्त्रीणां बहुदोषत्वाद्गुणहानिहेतुः किं पुना रमणमित्येतदेवाहवञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता। इति नैसर्गिका दोषा यसां तासु रमेत कः ॥४॥ वञ्चकत्वं मायाशीलता, नृशंसत्वं क्रूरकर्मकारिता, चञ्चलत्वं कुत्राप्यवस्थितचित्तत्वाभावः, कुशीलता दुः स्वभावता, उपस्थसंयमाभावो वा, इत्येते नैसगिकाः स्वाभाविका दोषा न त्वौपाधिकाः. तासु को रमेत ॥८४॥
न चेयन्त एव दोषा किन्त्वपरिसंख्याता इत्याहप्राप्तु पारमपारस्य पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां दुश्चरित्रस्य नो पुनः॥५४॥
पारावारस्य समुद्रस्य, अपारस्यादृष्टपारस्य, पारं परतीरं, प्राप्तुं पार्यते, शक्यते न पुनः स्त्रीणां प्रकृतिवक्राणां