________________
पोगशास्त्रम्
द्वितीय
प्रकाशः
भीरोराकुलचित्तस्य दुःस्थितस्य परस्त्रियाम् । रतिर्न युज्यते कर्तुमुपशूनं पशोरिव ॥१५॥
परस्त्रियां रतिः प्रीतिः, कर्तुं न युज्यते, भीरोः पतिराजादिभीतस्य, अत एवाकुलचित्तस्य अनेन दृष्टोऽनेन ज्ञातोऽहमिति उपसर्पतीति व्याकुलचित्तस्य, दुःस्थितस्य खण्डदेवकुलादौ शय्यासनादिरहितस्य, कस्येव, पशोरिव वध्यस्य, उपशूनं शूनासमीपे ॥९५।। तस्मात्प्राणसन्देहजननं परमं वैरकारणम् । लोकद्वयविरुद्धं च परस्त्रीगमनं त्यजेत् ॥१६॥
परस्त्रियां गमनं सम्भोगस्तत्त्यजेत्, प्राणानां जीवितव्यस्य सन्देहो नाशशङ्का, तं जनयतीति प्राणसन्देहजननं परस्त्रीषु प्रसक्तस्य हि प्रायेण परैः प्राणाः प्रणाश्यन्ते कदाचिन्नेति प्राणसन्देहः, परमं प्रकृष्टं वैरस्य विरोधस्य कारणम् यदाह-" बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रिय" इति । लोकद्वयमिहलोकपरलोकलक्षणं, तस्य विरुद्ध प्राणसन्देहजननत्वारिकारणत्वाल्लोकद्वयविरुद्धत्वादिति परस्त्रीगमनत्यागे हेतुत्रयं विशेषणद्वारेण ॥९६॥
लोकद्वयविरुद्धं चेति विशेषणमस्फुटं स्फुटयतिसर्वस्वहरणं बन्धं शरीरावयवच्छिदाम् । मृतश्च नरकं घोरं लभते पारदारिकः ॥१७॥
सर्वधनापहारं, रज्ज्वादिना बन्धं, शरीरावयवः पुंध्वजादिस्तस्य च्छिदां छेदं लभत इतीहलोकविरोधः। मृतश्च नरकं घोरं लभते इति परलोकविरोधः। परदारान् गच्छतीति पारदारिकः ॥९॥
उपपत्तिपूर्व परखीगमनप्रतिषेधमाह
URL