SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥२३९ । इदानीमामुष्मिकमैहिकं चाब्रह्मफलमुपदर्श्य गृहस्थोचितं ब्रह्मचर्यव्रतमाह षण्ढत्वमिन्द्रियच्छेदं वीक्ष्याब्रह्मफलं सुधीः। भवेत् स्वदारसन्तुष्टोऽन्यदारान् वा विवर्जयेत् ॥७६॥ षण्ढत्वमामुष्मिकं परदाररतानां फलं, इन्द्रियच्छेदश्व राजादिकृत ऐहिकं, अब्रह्मणः प्रतिषिद्धस्य मैथुनस्य, वीक्ष्य शास्त्रात्प्रत्यक्षेण वा ज्ञात्वा स्वदारेषु धर्मपत्न्यां सन्तुष्टो भवो भवेदित्येकं गृहस्थब्रह्मचर्य्यम्, अन्यदारान् परसम्बन्धिनीः स्त्रियो विवर्जयेत् । स्वस्त्रीसाधारणस्त्रीसेवीत्यर्थः इति द्वितीयम् ॥ ७६ ॥ यद्यपि गृहस्थस्य प्रतिपन्नं व्रतमनुपालयतो न तादृशः पापसम्बधोऽस्ति तथापि यतिधर्मानुरक्तो यतिधर्मप्राप्तेः पूर्व गार्हस्थ्येऽपि कामभोगविरक्तः सन् श्रावकधमं परिपालयति इति तं वैराग्यकाष्ठामुपनेतुं सामान्येनाब्रह्मदोषानाह रम्यमापातमात्रे यत् परिणामेऽतिदारुणम् । किंपाकफलसंकाशं तत्कः सेवेत मैथुनम् ॥७७॥ आपातमात्रे प्रथमारम्भमात्रे, रम्यं मनोहरं, परिणामे प्रारम्भादुत्तरावस्थायां, दारुणं रौद्रं, किंपाकफलसंकाश किंपाको वृक्षविशेषस्तत्फलसदृशं, किपाकफलं ह्यापाते रम्यं परिणामे दारुणं मारणात्मकत्वात् यदाह१वण्णड्ढा २ हलहलया दीसन्ता दिन्ति हिययपरिओसं । किंपागफला पुत्तय आसायन्तो वियाणिहिसि ॥ १ ॥ एवंविधं यन्मैथुनं मिथुनकर्म तत्कः सेवेतेति सम्बन्धः । यदाह (१) वर्णाद्याः कौतुका दृश्यमाना ददति हृदयपरितोषम् । किंपाकफलानि पुत्रक आस्वादमानो विज्ञास्यसि ॥१॥ (२) "तुमलम्मि कोउए हलहलं" इति श्री हेमचन्द्राचार्याः देशीनाममालायां अष्टमवर्गे अनेकार्थप्रकरणे७४ श्लोके व्याचख्युः । द्वितीय प्रकाशः ॥२३९॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy