________________
योग
शास्त्रम्
२४०॥
यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः । किंपाकफलादनवत् भवन्ति पश्चादविदुरन्ताः ॥२॥७७॥ मैथुनस्य परिणामदारुणत्वमाह -
कम्पः स्वेदः श्रमो मूर्च्छाभ्रमिग्लानिर्बलक्षयः । राजयक्ष्मादिरोगाश्च भवेयुमैथुनोत्थिताः ॥७८॥ कम्पो वेपथुः स्वेदो धर्मः, श्रमः क्रमः मूर्च्छा मोहः, भ्रमिभ्रमः, ग्लानिरङ्गसादः, बलक्षयः शक्तिनाशः, राजयक्ष्मा क्षयरोगः, स आदिर्येषां कासश्वासादीनां रोगाणां ते तथा मैथुनोत्थिता मैथुनप्रभवाः ॥७८॥ अहिंसापरिवारत्वाच्छेषव्रतानां मैथुने अहिंसाया एवाभावमाह -
योनियन्त्रसमुत्पन्नाः सुसूक्ष्मा जन्तुराशयः । पीड्यमाना विपद्यन्ते यत्र तन्मैथुनं त्यजेत् ॥७९॥
योनिः प्रसवमार्गः सैव यन्त्राकारत्वाद्यन्त्रं तत्र समुत्पन्नाः संमूर्च्छनेनोत्पन्नाः, ते च न चक्षुर्ग्राह्या इत्याहसुसूक्ष्माः, जन्तुराशयो जन्तुसमूहाः, पीड्यमाना मृद्यमानाः पुंध्वजेनेति शेषः, रूतनालिकायां तप्तभ्यःकणकप्रवेशे रूतानीव, विपद्यन्ते विनश्यन्ति, यत्र मैथुने तन्मैथुनं त्यजेत् ॥ ७९ ॥
योनौ जन्तुसद्भावं संवादेन द्रढयति
जन्तुसद्भावं वात्स्यायनोऽप्याह ।
वात्स्यायनः कामशास्त्रकारः । अनेन च वात्स्यायनसंवादाधीनमस्य प्रामाण्यमिति नोच्यते, न हि जैनं शासनमन्यसंवादाधीनप्रामाण्यं किन्तु येऽपि कामप्रधानास्तैरपि जन्तुसद्भावो नापन्हुत इत्युच्यते ।
द्वितीय
प्रकाशः
IRVoll