________________
योग
शास्त्रम्
॥ २३८ ॥
स्तेयनिवृत्तानां फलं श्लोकद्वयेनाह-
परार्थग्रहणे येषां नियमः शुद्धचेतसाम् । अभ्यायान्ति श्रियस्तेषां स्वयमेव स्वयम्बराः ॥७४ || परार्थग्रहणे परधनहरणे येषां नियमो निवृत्तिः शुद्धचेतसां निर्मलचित्तानां न तु बकवृत्तीनां कश्मलमनसां तेषामभ्यायान्ति अभिमुखमायान्ति श्रियः सम्पदः, स्वयमेव न तु परप्रेरणया व्यवसायेन वा । स्वयंवरा इत्युपमानगर्भम् । स्वयम्बरा इव कन्याः ॥७४ ||
तथा
अनर्था दूरतो यान्ति साधुवादः प्रवर्त्तते । स्वर्गसौख्यानि ढौकन्ते स्फुटमस्तेयचारिणाम् ॥७५॥ अनर्था विपदः, दूरतो यान्त्यासन्ना अपि न भवन्ति, साधुरयमिति प्रवादः साधुवादः श्लाघा, प्रवर्त्तते प्रसरति, एतावदैहिकं फलम्, स्वर्गसौख्यानीति तु पारलौकिकम्, अस्तेयव्रतेनावश्यं चरन्तीत्यस्तेयचारिणस्तेषाम् । अत्रान्तरश्लोकाः-
वरं वह्निशिखा पीता सर्पास्यं चुम्बितं वरम् । वरं हालाहलं लीढं परस्वहरणं न तु ॥ १॥ प्रायः परस्वलुब्धस्य निःशुका बुद्धिरेधते । हन्तुं भ्रातॄन् पितॄन् दारान् सुहृदस्तनयान् गुरून् ||२|| परस्वं तस्करो गृह्णन् वन्धादि नेक्षते । पयःपायीव लगुडं बिडाल उपरिस्थितम् ||३|| व्याधधीवरमार्जारादिभ्यश्चौरोऽतिरिच्यते । निगृह्यते नृपतिभिर्यदसौ नेतरे पुनः || ४ ||
स्वर्णादिकेऽप्यन्यधने पुरस्थे, सदा मनीषा दृषदीव येषाम् । सन्तोषपीयूषरसेन तृप्तास्ते द्यां लभन्ते गृहमेधिनोऽपि ॥५॥७५॥
द्वितीय प्रकाशः
||२३८||