________________
योगशास्त्रम्
॥२३७॥
मोषकः ॥१००॥ भगवद्वचसैकेन दुर्लङ्घया लघिता मया । प्रज्ञाऽभयकुमारस्य तरण्डेनेव निम्नगा ॥१॥ अशेषमेतन्मुषितं पत्तनं भवतो मया । नान्वेषणीयः कोऽप्यन्यस्तस्करो राजभास्कर ||२|| कमपि प्रेषय यथा तल्लोत्रं दर्शयाम्यहम् । करिप्ये सफलं जन्म ततः प्रव्रज्यया निजम् || ३ || अभयोऽथ समुत्थाय श्रेणिकादेशतः स्वयम् । कौतुकात्पौरलोकश्च सहागाचेन दस्युना ||४|| ततो गिरिणदीकुञ्जश्मशानादिषु तद्धनम् । स्थगितं दर्शयामास सोऽथ श्रेणिकसूनवे ||५|| अभयोऽपि हि यद्यस्य तत्तस्य धनमार्पयत् । नीतिज्ञानामलोभानां मन्त्रिणां नापरा स्थितिः || ६ || परमार्थ कथयित्वा प्रबोध्य निजमानुषान् । श्रद्धालु भगवत्पार्श्वे रौहिणेयः समाययौ ॥७॥ ततः श्रेणिकराजेन कृतनिष्क्रमणोत्सवः । स जग्राह परिव्रज्यां पार्श्वे श्रीवीरपादयोः ||८|| ततचतुर्थादारभ्य षण्मासान् यावदुज्ज्वलम् । विनिर्ममे तपःकर्म कर्म निर्मूलनाय सः ॥ ९ ॥ तपोभिः कृशितः कृत्वा भावसंलेखनां च सः । श्रीवीरमा पृच्छ्य गिरौ पादपोपगमं व्यधात् ||१०|| शुभध्यानः स्मरन् पञ्चपरमेष्ठिनमस्क्रियाम् । त्यक्त्वा देहं जगाम द्यां रौहिणेयो महामुनिः ॥११॥
रौहिणेय इव चौर्यनिवृत्तः, स्वर्गलोकमचिरादुपयाति ।
तमुधी विदधीत कथञ्चिच्चौरिकामुभयलोकविरुद्धाम् ॥ ११२ ॥ इति रौहिणेयकथानकम् ॥७२॥ स्तेयस्यातिपरिहरणीयतामाह
दूरे परस्य सर्वस्वमपहर्तुमुपक्रमः । उपाददीत नादत्तं तृणमात्रमपि क्वचित् ॥७३॥ दूरे आस्तां तावत्रस्य सर्वस्वं निःशेषधनम्, अपहर्तुमुपक्रमः प्रारम्भः अदत्तं स्वामिना तृणमात्रमपि नोपाददीत न गृह्णीयात् न तदर्थं यत्नं कुर्यादिति यावत् ॥७३॥
द्वितीय प्रकाशः
॥ २३७॥