________________
योगशास्त्रम् ॥२३६॥
द्वितीय प्रकाशा
वळच्यन्ते वञ्चनादौदेक्षा अपि कदाचन ॥८३॥ ततः सोऽचिन्तयच्चौरो धिगादेशं पितुर्मम । कश्चितोऽस्मि चिरं येन भगवद्वचनामृतात् ॥८४॥ नागमिष्यत् प्रभुवचो यदि मे कर्णकोटरम् । तदा विविधमारेणागमिष्यं यमगोचरम् ॥८५॥ अनिच्छयाऽपि हि तदा गृहीतं भगवद्वचः । मम जीवातवे जज्ञे भैषज्यमिव रोगिणः ॥८६॥ त्यक्त्वाहद्वचनं हा धिक् चौरवाचि रतिर्मया । आम्राण्यपास्य निम्बेषु काकेनेव चिरं कृता ॥८७॥ उपदेशैकदेशोऽपि यदीयः फलतीदृशम् । तस्योपदेशः सामस्त्यात् सेवितः किं करिष्यति ॥८८॥ एवं विमृश्य मनसा ययौ भगवतोऽन्तिके । पादाम्बुजे च नत्वैवं रौहिणेयो व्यजिज्ञपत् ।।८९॥ भवाब्धौ प्राणिनां घोरविपन्नक्रकुलाकुले । महापोतायते ते गीरायोजनविसर्पिणी ॥९॥ निषिद्धस्त्वद्वचः श्रोतुमनाप्तेनाप्तमानिना । इयत्कालमहं पित्रा वश्चितस्तज्जगदगुरी ॥९१॥ त्रैलोक्यनाथ ते धन्याः श्रद्दधानाः पिबन्ति ये । भवद्वचनपीयूष कर्णाअलिपुटैः सदा ॥ ९२ ॥ अहं तु पापोऽशुश्रुषुर्भगवन् भवतो वचः। पिधाय कौँ हा कष्टमिदं स्थानमलवयम् ॥ ९३ ॥ एकदाऽनिच्छताऽप्येकं श्रुतं युष्मद्वची मया । तेन मन्त्राक्षरेणेव रक्षितो राजराक्षसात् ॥९४॥ यथाऽहं मरणास्त्रातस्तथा त्रायस्व नाथ माम् । संसारसागरावर्ते निमज्जन्तं जगत्पते ॥९५॥ ततस्तकृपया स्वामी निर्वाणपददायिनीम् । विशुद्धां विदधे साधु साधुधर्मस्य देशनाम् ॥९६॥ ततः प्रबुद्धः प्रणमन् रौहिणेयोऽब्रवीदिदम् । यतिधर्मस्य योग्योऽस्मि न वेत्यादिश मां प्रभो ॥९७॥ योग्योऽसीति स्वामिनोक्ते, ग्रहीष्यामि विभो व्रतम् । परं किश्चिद्वदिष्यामि, श्रेणिकेनेत्युवाच सः ॥९८॥ निर्विकल्पं निर्विशई स्ववक्तव्यमुदीरय । इस्युक्तः श्रेणिकनृपेणोचे लोहखुरात्मजः ॥९९।। इह देव भवद्भिर्यः श्रुतोऽई लोकवार्तया । स एष रौहिणेयोऽस्मि भवत्पत्तन
॥२३६क्षा