________________
शास्त्रम्
॥२३॥
द्वितीय प्रकाश
कीगाचार इति श्रुत्वा स पुरुषः । साक्षेपमित्यभाषिष्ट किमेतदपि विस्मृतम् ॥६६॥ य इहोत्पद्यते देवः स स्वे सुकृतदुष्कृते । आख्याति प्राक्तने स्वर्गभोगाननुभवेत्ततः ॥६७॥ विस्मृतं स्वामिलाभेन सर्वमेतत्प्रसीद नः। देवलोकस्थिति देवः कार्यतामिति तेऽवदन् ॥६८॥ स रौहिणेयमित्यूचे निजे हन्त शुभाशुभे । प्राक्तने शंस नः स्वर्गभोगान् भुक्ष्व ततः परम् ॥६९॥ ततः सोऽचिन्तयइस्युः किमेतत् सत्यमीदृशम् । मां ज्ञातुमभयेनैप प्रपञ्चो रचितोऽथवा ॥७०॥ ज्ञेयं कथमेतदिति ध्यायता तेन संस्मृतम् । कण्टकोदरणकालाकर्णितं भगवद्वचः ॥७॥ देवस्वरूपं श्रीवीराछुत चेत् संवदिष्यति । तत्सत्यं कथयिष्यामि करिष्याम्यन्यथोत्तरम् ॥७२॥ इति बुद्धया स तानीक्षाश्चक्रे क्षितितलस्पृशः । प्रस्वेदमलिनान् म्लानमाल्यानिमिषदीक्षणान् ॥७३॥ तत्सर्व कपटं ज्ञात्वाऽचिन्तयत दस्युरुत्तरम् । तेनोचे कथ्यतां देव लोकः सर्वोऽयमुत्सुकः ॥ ७४ ॥ रौहिणेयस्ततोऽवादीन्मया पूर्वत्र जन्मनि । अदीयत सुपात्रेभ्यो दानं चैत्यानि चक्रिरे ॥७५।। प्रत्यष्ठाप्यन्त बिम्बानि पूजितान्यष्टधार्चया। विहितास्तीर्थयात्राश्च गुरवः पर्युपासिताः ॥७६।। इत्यादि सदनुष्ठानं मया कृतमिति ब्रुवन् । ऊचे दण्डभृता शंस चरित्रमपि स्वकम् ॥ ७७ ॥ रोहिणेयोऽप्युवाचेदं साधुसंसर्गशालिना । कदाचिदप्याचरितं किञ्चिन्ना
शोभनं मया ॥७८ ।। व्याजहार प्रतीहारो जन्म नैकस्वभावतः । याति तत्कथ्यतां चौर्यपारदारिकतादिकम् । ॥७९॥ रौहिणेयोऽभ्यधत्व किमेवंविधचेष्टितः । स्वलोकं प्राप्नुयादन्धः किमारोहति पर्वतम् ॥ ८० ॥ गत्वा
ततस्तैस्तत्सर्वमभयाय निवेदितम् । अभयेन च विज्ञप्तं श्रेणिकस्य महीपतेः ॥ ८१॥ एवंविधैरुपायैर्यश्चौरो ज्ञातुं न शक्यते । स चौरोऽपि विमोक्तव्यः शक्या नीतिन लवितुम् ॥८२॥ अभयः पार्थिवादेशाद्रोहिणेयमथामुचत ।
॥२३५॥