________________
योगशास्त्रम्
द्वितीय प्रकाशः
॥२३४॥
विनिर्यातो बाह्यारक्षगणेष्वहम् । कैवर्तहस्तविसस्तो जाले मत्स्य इवापतम् ॥४८॥ ततो निरपराधोऽपि वध्वा चौर इवाधुना । अहमेभिरिहानीतो नीतिसार विचारय ॥४९॥ ततस्तं भूपतिर्गुप्तौ प्रेषयामास तत्क्षणात् । तत्प्रवृत्तिज्ञानहेतोस्तत्र मामे च पूरुषम् ॥५०॥ सोऽग्रेऽपि प्राहितो ग्रामः सकेतं तेन दस्युना । चौराणामपि केषाश्चिच्चित्रमायतिचिन्तनम् ॥५१॥ तत्स्वरूपं राजपुंसा ग्रामः पृष्टोऽब्रवीदिदम् । दुर्गचण्डोऽत्र वास्तव्यः परं प्रामान्तरं गतः ।। ५२ ॥ तत्रार्थे तेन विज्ञप्ते दध्यौ श्रेणिकमरिदम् । अहो सुकृतदम्भस्य ब्रह्माऽप्यन्तं न गच्छति ॥ ५३॥ अभयोऽसजयदय प्रासादं सप्तभूमिकम् । महार्घरत्नखचित विमानमिव नाकिनाम् ॥ ५४ ॥ श्रियाऽप्सरायमाणाभी रमणीभिरलङ्कृतम् । दिवोऽमरावतीखण्डमिव भ्रष्टमतर्कि सः॥५५।। गन्धर्ववर्गप्रारब्धसङ्गीतकमहोत्सवः । सोऽधादकस्मादुद्भूतगन्धर्वनगरश्रियम् ॥५६॥ ततोऽभयो मद्यपानमूढं निर्माय तस्करम् । परिधाप्य देवदुष्ये अधितल्पमशाययत् ॥५७॥ मदे परिणते यावदुदस्थातावदैवत । सोऽकस्माद्विस्मयकरीमपूर्वा दिव्यसंपदम् ॥५८॥ अत्रान्तरेऽभयादिष्टैनरनारीगणैस्ततः। उदचारि जय जय नन्देत्यादिकमङ्गलम् ॥५९॥ अस्मिन्महाविमाने त्वमुत्पत्रिदशोऽधुना । अस्माकं स्वामिभूतोऽसि त्वदीयाः किङ्करा वयम् ॥६०॥ अप्सरोभिः सहैताभी रमस्व स्वैरमिन्द्रवत् । इत्यादि चतुरं चाटुगर्भमूचे च तैरसौ ॥६१॥ जातः सुरः किमस्मीति दध्यौ यावत्स तस्करः। संगीतकार्य तावत्तैः प्रदत्तः समहस्तकः ॥६२॥ उपेत्य पुंसा केनापि स्वर्णदण्डभृता ततः। सहसा भोः किमारब्धमेतदेवमभाष्यत ॥६॥ ततः प्रतिबभाषे तैः प्रतिहार निजप्रभोः। प्रदर्शयितुमारब्धं स्वकं विज्ञानकौशलम् ॥६॥ सोऽप्युवाच स्वनाथस्य दर्श्यतां निजकौशलम् । देवलोकसमाचारं कार्यतां किं त्वसाविति ॥६५॥ तैरुक्तं
॥२४॥