________________
योगशास्त्रम्
द्वितीय प्रकाशा
॥२३३॥
वेतनम् । गृहासि चौरैर्गह्यन्ते यदेते त्वदुपैक्षितैः ॥३०॥ सोऽप्यूचे देव कोऽप्येष चौरः पौरान् विलुण्टति। रौहिणेयाहयो धत्तुं दृष्टोऽपि न हि शक्यते ॥३॥ विधुदुस्क्षिप्तकरणेमोत्प्लुत्यायं प्लवङ्गवत् । गहादगेहं ततो वप्रमुल्लयति हेलया ॥३२॥ मार्गेण यामस्तन्मार्ग यावत्तावत्स नेक्ष्यते । त्यक्तो ह्येकक्रमेणापि शतेन त्यज्यते क्रमैः ॥३३॥ न तं हन्तुं न वा धर्तमहं शक्नोमि तस्करम् । गृह्णातु तदिमां देवो दाण्डपाशिकतां निजाम् ॥३४॥ नृपेणोल्लासितैकद्मसंज्ञया भाषितस्ततः । कुमारोऽभयकुमारस्तमूचे दाण्डपाशिकम् ॥३५॥ चतुरङ्गचमं सज्जीकृत्य मुश्च बहिष्पुरात । यदान्तःप्रविशेञ्चौरः पत्तनं वेष्टयेस्तदा॥३६॥ अन्तश्च त्रासितो विधुदुक्षिप्तकरणेन सः । पतिष्यति बहिः सैन्ये वागुरायां कुरङ्गवत् ॥३७॥ प्रतिभूमिरिवानीतो निजपादैस्ततश्च सः। ग्रहीतव्यो महान् दस्युरप्रमत्तः पदातिभिः॥३८॥ तथेत्यादेशमादाय निर्ययौ दाण्डपाशिकः । तथैव च चमं सज्जां प्रच्छन्नं निर्ममे सुधी॥३६॥ तदिने रौहिणेयोऽपि नामान्तरसमागमात् । अजानानः पुरी रुद्धां वारी गज इवाविशत् ॥४०॥ तैरुपायैस्ततो धृत्वा बध्ध्वा च स मलिम्लुचः। आनीय नृपतेर्दाण्डपाशिकेन समर्पितः॥४१॥ यथा न्याय्यं सतां त्राणमसतां निग्रहस्तथा । निगृह्यतामसौ तस्मादित्यादिक्षन्महीपतिः ॥ ॥४२॥ अलोतः प्राप्त इत्येष न हि निग्रहमर्हति । विचार्य निग्रहीतव्य इत्युवाचाभयस्ततः ॥४३॥ अथ पप्रच्छ ते राजा कत्यः कीदृशजीविकः। कुतो हेतोरिहायातो रौहिणेयः स चासि किम् ॥४४॥ स्वनामशङ्कितः सोऽपि प्रत्युवाचेति भूपतिम् । शालिग्रामे दुर्गचण्डाभिधानोऽहं कुटुम्बिकः ॥ ४५ ॥ प्रयोजनवशेनेहायातः संजातकौतुकात् । एकदेवकुले रात्रि महतीमस्मि च स्थितः ॥४६॥ स्वधाम गच्छन्नारक्षराक्षिप्तो राक्षसैरिव । अलवयमहं वनं प्राणभीमइती हि भीः॥४७॥ मध्यारक्ष
॥२३३॥