________________
योगशाखम् ॥२३२॥
पालयन् पितुरादेशं जीवितव्यमिवात्मनः । स्वदा सेरमिवामुष्णात् स राजगृहपत्तनम् || १४ || तदा च नगरग्रामाकरेषु विहरन् क्रमात् । चतुर्दशमहासाधुसहस्रपरिवारितः ॥ २५ ॥ सुरैः संचाय्र्यमाणेषु स्वर्णाम्भोजेपु चारुषु । न्यस्यन् पदानि तत्रागाद्वीरश्वरमतीर्थकृत ॥। १६ ।। १व्यन्तरैरसुरैर्ज्योतिषिकैवैमानि कैरपि । सुरेः समवसरणं चक्रे जिनपतेस्ततः ।। १७ । आयोजनविसर्पिण्या सर्वभाषानुयातया । भारत्या भगवान् वीरः प्रारेभे धर्मदेशनाम् ॥ १८ ॥ तदानीं रौहिणेयोऽपि गच्छन् राजगृहं प्रति । मार्गान्तराले समवसरणाभ्यर्णमाययौ ॥ १९ ॥ एवं चिन्तयामास पथाऽनेन व्रजामि चेत् । श्रणोमि वीरवचनं तदाज्ञा भज्यते पितुः || २०|| न चान्यो विद्यते पन्था भवत्वेवं विमृश्य सः । कर्णौ पिधाय पाणिभ्यां तं राजगृहं ययौ ॥ २१ ॥ एवमन्वहमप्यस्य यातायातकृतोऽ न्यदा । उपसमवसरणं पादेऽभज्यत कण्टकः ||२२|| ओत्सुक्यगमनाद्गाढमग्नं पादे स कण्टकम् । अनुध्धृत्य समुद्धर्त्तुं न शशाक क्रमात् क्रमम् ||२३|| नास्त्युपायोऽपरः कोऽपीत्याकृष्य श्रवणात्करम् । कर्षन् कण्टकम - श्रोषीदिति विश्वगुरोर्गिरम् ||२४|| महीतलास्पर्शिपादा निर्निमेषविलोचनाः । अम्लानमाल्या निःस्वेदा नीरजोऽगाः सुरा इति ||२५|| बहुश्रुतमिदं धि धिगित्याशुध्धृतकण्टकः । पिधाय पाणिना कर्ण तथैवापस - सारसः ||२६|| अथान्वहं मुष्यमाणे पत्तने तेन दस्युना । उपेत्य श्रेणिकं श्रेष्ठिश्रेष्ठा व्यज्ञपयन्निति ॥२८॥ त्वयि शासति देवान्यन्न भयं द्रविणं तु नः । आकृष्य गृह्यते चौरैरदृष्टैश्वेटिकैरिव ॥ २८ ॥ बन्धूनामिव तेषां तु गृहीतः पीडया ततः । सकोपाटोपमित्यूचे नृपतिर्दण्डपाशिकम् ॥ २९॥ किं चौरीभूय दायादीभूय वा मम (१) वैमानिकैज्र्ज्योतिषिकैर्व्यन्तरैरसुरैरपि इति वा पाठः ।
द्वितीय प्रकाशः
॥२३२॥