________________
योगशास्त्रम्
॥२३१॥
द्वितीय
प्रकाशा
राजा पापानां कुशल कियत् ॥९८॥
चौर्यात् श्वशुर्यमपि विक्रमराजराजः, आनीय मण्डिकमखण्डनयो जघान । स्तैन्यं न तेन विदधीत सुधीः कथञ्चिदत्रापि जन्मनि विरुद्धफलानुबन्धि ॥२९९॥
॥ इति मूलदेवमण्डिकयोः कथानकम् ॥ आसीद्राजगृहे सम्पज्जितामरपुरे पुरे । पादाक्रान्तनृपश्रेणि: श्रेणिको नाम पार्थिवः ॥१॥ राजस्तस्य च तनयो नयविक्रमभाजनम् । नाम्नाऽभयकुमारोभूत् प्रद्युम्नः श्रीपतेरिव॥२॥ इतश्च तस्मिन्नगरे वैभारगिरिकन्दरे। चौरो लोहखुराख्योऽभूद्रौद्रो रस इवाङ्गवान् ॥३॥ स तु राजगृहे नित्यं पौराणामुत्सवादिषु । लब्ध्वा छिद्राणि विदधे पिशाचवदुपद्रवम् ॥४॥ आददानस्ततो द्रव्यं भुजानश्च परस्त्रियः । भाण्डागारं निशान्तं वा निजं मेने स तत्पुरम् ॥५॥ चौर्यमेवाभवत्तस्य प्रीत्यै वृत्तिनं चापरा । अपास्य क्रव्यं क्रव्यादा भक्ष्यस्तृप्यन्ति नापरैः ॥६॥ तस्यानुरूपो रूपेण चेष्टया च सुतोऽभवत् । भार्यायां रोहिणीनाम्न्यां रौहिणेयोऽभिधानतः ॥७॥ स्वमृत्युसमये प्राप्ते पित्राऽऽहयेत्यभाषि सः । यद्यवश्यं करोषि त्वमुपदेशं ददामि तत् ॥८॥ अवश्यमेव कत्तव्यमादिष्टं भवतां मया । कः पितुः पातयेदाज्ञां पृथिव्यामित्युवाच सः ॥९॥ प्रहृष्टो वचसा तेन चौरो लोहखुरस्ततः । पाणिना संस्पृशन् पुत्रमभाषिष्टेति निष्ठुरम् ॥१०॥ योऽसौ समवसरणे स्थितः सुरविनिर्मिते । विधत्ते देशनां वीरो मा श्रौषीस्तस्य भाषितम् ॥११॥ अन्यत्त स्वेच्छया वत्स कुर्यास्त्वमनियन्त्रितः । उपदिश्येति पश्चत्वं प्राप लोहखुरस्ततः ॥१२॥ मृतकार्य पितुः कृत्वा रौहिणेयस्ततोऽनिशम् । चकार चौरिकां लोहखुरोऽपर इवोद्गतः ॥१३॥
॥१३॥