________________
योगशास्त्रम्
द्वितीय प्रकाश
॥२३०॥
॥८॥ कोपान्धनयनश्चासौ स एवैष पुमानिति । कङ्कासिना दृषत्स्तम्भं च्छित्वाऽगाद्धाम मण्डिकः ॥८२॥ ययौ स्वं धाम राजाऽपि हृष्टश्चौरोपलम्भतः। प्राप्तः सौख्याय जायेत रदोषकारी न कस्य वा ॥८३॥ राजा प्रातस्ततो राजपाटिकाव्याजतो बहिः । दस्युं विश्वमनोदस्युस्तं निरूपयितुं ययौ।।८४॥ अथ वखापणद्वारे कुर्वाणं तुकारताम् । प? - वेष्टितजोरु किञ्चिदुद्घाटिताननम् ।।८५॥ तस्कर मस्करलतोपेतं छद्मश्लथाकृतिम् । दृष्ट्वोपालक्षयत् क्ष्मापः क्षपादृष्टानुमानतः॥८५॥(युग्मम्) गत्वा हयं महोनाथोऽभिज्ञानानि निवेदयन् । पुरुषान् प्रेषयामास तस्याकारणहेतवे।८७। न हतः स पुमान्नूनं तद्विजम्भितमित्यसौ । आहूतोऽमस्त चोरा हि महारानिकवेदिनः||८८|| सोऽगात्ततो राजकुले राज्ञाऽऽस्यत महासने । महाप्रसादं कुर्वन्ति नीतिज्ञा हि जिघांसवः।।८९॥ तं भूपतिरभाषिष्ट प्रसादमुखया गिरा । स्वस्वसा दीयतां मह्यं दातव्या एव कन्यका ॥९०॥ दृष्टपूर्वी स्वसारं मे नापरो निरगात्ततः । अयं स एव राजेति निश्चिक्ये मण्डिको हृदि ।।९१॥ गृह्यतां मत्स्वसा देव देवकीयैव सा किल । मदीयमन्यदप्येवमवोचत स पार्थिवम् ।।९।। तदानीमप्युपायंस्त रूपातिशयशालिनीम् । तस्य स्वसारं नृपतिः कंसारिरिव रुक्मिणीम् ॥९३॥ महामात्यपदे चक्रे तस्कर ने नरेश्वरः। को वेत्ति भूभुजां भावं मध्यं पत्युरिवाम्भसाम् ॥९४॥ तस्मा
भूषणवस्त्रादि तद्भगिन्यैव भूपतिः । नित्यमानादयदहो धृत्तों धृत्रधृष्यत ॥९५॥ बहु यावत्समाकृष्ट द्रव्यं तावन्नृपेण सा । अभाषि वित्तं त्वदबन्धोः कियदद्यापि तिष्ठति ॥९६॥ वित्तमेतावदेवासीदस्य दस्योः स्वसाऽपि हि । एवं न्यवेदयद्राज्ञो गोप्यं प्रियतमे न हि ॥९७॥ विडम्बनाभिर्बहीभिर्मण्डिक चण्डशासनः । निजग्राह ततो
(१) 'दोषाकरः' इति पाठः संभवति । (२) वंशलतोपेतम्
॥२३॥