________________
योगशास्त्रम्
द्वितीय प्रकाशा
॥२२९॥
BENGADनताaar
पत्तिवत्पृथिवीपतिः। ममर्द गर्दभस्यापि पादौ कार्याजनार्दनः॥६५॥ अजानानः स राजानं पार्श्व मृत्युमिवात्मनः। जगाम धाम कस्यापि श्रेष्ठिनः श्रेष्ठसम्पदः॥६६॥ तत्र खात्रं खनित्रेण पातयित्वा स वेश्मनः। जग्राह सारद्रविणं राहुः कुण्डात्सुधामिव ॥६७॥ अज्ञो राज्ञा समस्तं तद्वाहयामास तस्करः । उदरं दर्शयामास शाकिन्येव स मूढधीः ॥६८॥ तमुन्मूलयितुं मूलान्मूलदेव उवाह तत् । धूर्ती हि कारणोपात्तमार्दवाः कार्यराक्षसाः ॥६९॥ जीर्णोद्यानं ततो गत्वा गुहामुद्घाटय सोऽविशत् । निनाय तत्र भूपं च १च्छगणारोपितालिवत् ॥७०॥ आसीनागकुमारीव कुमारी तत्र तत्स्वसा । नवयौवनलावण्यपुण्यावयवशालिनी ।।७१॥ क्षालयास्यातिथेः पादावित्यादिष्टा स्वबन्धुना । सोपकूपं ततो भूपमुपावेशयदासने ॥७२॥ प्रक्षालयन्ती तत्पादकमले कमलेक्षणा । अनुभूय मृदुस्पर्श तं सर्वाङ्गसुदैवत ॥७३।। अहो कोऽप्येष कन्दर्पः साक्षादिति सविस्मया । सानुरागा सानुकम्पा साडब्रवीदिति भूपतिम् ।।७४॥ पादप्रक्षालनव्याजात्कूपेऽस्मिन्नपरे नराः । अपात्यन्त महाभाग तस्कराणां कुतः कृपा ॥७५।। क्षेप्यामि नेह कूपे त्वां त्वत्प्रभाववशीकृता । महतामनुभावो हि वशीकरणमद्भुतम् ॥ ७६ ॥ ततो मदुपरोधेन सुन्दरापसर द्रुतम् । द्वयोरप्यन्यथा नाथ कुशलं न भविष्यति ॥७७॥ विमृश्याथ महीनाथो निर्जगाम द्रुतं ततः । धीमन्तो हि धिया नन्ति द्विषः सत्यपि विक्रमे ॥७८॥ गते नृपे तु व्याहारि तया गच्छत्यसाविति स्वक्षणरक्षणार्थ हि प्रपञ्चो धीमतामयम् ॥७९॥ कृष्टकङ्कासिजिह्वालो वेताल इव दारुणः । अनुभूपालमुत्तालो दधावे मण्डिकस्ततः ।।८०॥ तं समासनमालोक्य भूपति(बृहस्पतिः। चत्वरोत्तम्भितग्रावस्तम्भेनान्तरितोऽभवत् (१) 'मर्दयामास' इति प्रत्यन्तरपाठः साधीयान् । (२) अलिः वृश्चिकः ।
રા