________________
योगशास्त्रम्
॥२२८॥
अथोचे मूलदेवोऽपि मया क्षान्तं तदैव ते । यदा प्रसादो विदधे देव्या श्रीदेवदत्तया ॥ ४८ ॥ ततः प्रसादं दत्त्वोच्चैर्दूतमेकं समर्प्य च । पुरीमुज्जयिनीं गन्तुं विससर्जाचलं नृपः ॥ ४९ ॥ प्रवेशोऽवन्तिनाथेन तस्यावन्त्यामदीयत । मूलदेवस्य वचसा कोपस्तन्मूल एव यत् ॥ ५० ॥ अन्येद्युर्दुः खविधुराः प्रजाकार्यधुरन्धरम् । मिलित्वा वणिओ मूलदेवमेवं व्यजिज्ञपन् ॥ ५१ ॥ जाग्रत्यपि प्रजास्त्रातुं त्वयि देव दिवानिशम् । अमुष्यतेदं नगरं परितः परिमोषिभिः ॥५२॥ कोला इव चिरं चौराः पुरेऽस्मिन्मन्दिराणि नः । प्रतिक्षपं खनन्त्युच्चैर्नारक्षा रक्षितुं क्षमाः || ५३ || अदृश्यमानाः केनापि कृतसिद्धान्ञ्जना इव । भ्राम्यन्ति चौराः स्वैरं नो गृहेषु स्वगृहेश्विव ॥ ५४ ॥ अचिराभिग्रहीष्यामि तस्करानयशस्करान् । मूलदेवोऽभिधायैवं वणिजो विससर्ज तान् ||५५|| आदिक्षनगराध्यक्षं साक्षेपं क्ष्मापतिस्ततः । अन्विष्य तस्करान् सर्वान् गृहाण निगृहाण च ॥ ५६ ॥ अथोवाच पुराध्यक्षः स्वामिetsस्ति तस्करः । असौ न शक्यते तु दृष्टनष्टः पिशाचवत् ॥५७॥ जातामर्षस्ततो राजा महौजा निर्ययौ निशि । नीलाम्बरप्रावरणो नीलाम्बर इवापरः ॥५८॥ स्थानेषु शङ्कास्थानेषु बभ्राम स्थामधाम से । दस्युं कमपि नापश्यदहेः पदमिवाम्भसि ॥५९॥ स सवं नगरं भ्रान्तः श्रान्तः सुष्वाप कुत्रचित् । खण्डदेवकुकुः शैलगुहायामिव केसरी ॥६०॥ निशाचर इवाकस्मान्निशाचरणदारुणः । तस्कराग्रे सरस्तत्रोपासरन्मण्डिकाभिधः ॥६१॥ कोऽर्त्रेति व्याहरन्नुच्चैर्मलिम्लुचपतिस्ततः । रुष्टः सुप्तमिव व्यालं पदा नृपमघट्टयत् ॥६२॥ चेष्टां स्थानं च वित्तं च जिज्ञासुस्तस्य भूपतिः । ऊचे कार्यटिकोऽस्मीति क क निष्णा न तादृशाः ॥ ६३॥ एहि कार्यटिकाद्य त्वामदरिद्रीकरोम्यहम् । इत्यूचे तस्करो भूपं मदान्धानां धिगताम् ॥ ६४ ॥ तमन्वचालीत्सोऽर्थेच्छुः
द्वितीय
प्रकाशः
॥२२८॥