________________
योगशास्त्रम् ॥२२७॥
द्वितीय प्रकाशा
किमियदेवेदं सत्यं ब्रहीति भूभुजा । उक्त इत्युक्तवान् श्रेष्ठी सत्यमेतावदेव मे ॥३१॥ नृपेण पुनरप्यूचे सम्यग् ज्ञात्वा निवेदय । अस्मद्राज्ये शुल्कचौर्या यच्छरीरेण निग्रहः ॥३२॥ अवोचदचलोऽप्येवमस्माभिः कथ्यते न्यथा । पुरतो नापरस्यापि स्वयं देवस्य किं पुनः ॥३३॥ राजेत्युवाच तस्य श्रेष्ठिनः सत्यभाषिणः । क्रियता मदानं च सम्यग्भाण्डं च वीक्ष्यताम् ॥३४॥ ततः पञ्चकुलेनांहिप्रहारावंशवेधतः । असारभाण्डमध्यस्थं सारभाण्डमशङ्कयत ॥३५॥ जाताशकैस्ततो राजपुंभिर्विभिदिरे क्षणात् । शुल्कदस्युमनांसीव भाण्डस्थानानि सर्वतः ॥३६॥ तैर्यथा शङ्कितं भाण्डं वित्तशाठयं तथाऽभवत् । परपुरान्तःप्रवेशकारिणो राधिकारिणः ॥३७॥ तज्ज्ञात्वा कुपितो राजा बन्धयामास तं क्षणात् । सामन्ता अपि बध्यन्ते राजादेशाद्वणिक् कियान् ॥३८॥ ततस्तं सदने नीत्वा छोटयित्वा च बन्धनम् । किं मां प्रत्यभिजानासि पप्रच्छेति महीपतिः ॥३९॥ अचलोऽपि जगादेवं जगदुद्द्योतकारिणम् । भानुमन्तं भवन्तं च बालिशोऽपि न वेत्ति कः ॥४०॥ पर्याप्त चाटुवचनैः सम्यक् त्वं वेत्सि तद्वद । राज्ञेत्युक्तोऽचलोऽवोचत्तर्हि जानामि नयहम् ॥४१॥ देवदत्तामथाहूय भूपतिस्तमदर्शयत् । इष्टैदृष्टा कृतार्था स्यान्मनःसिद्धिर्हि मानिनाम् ॥४२॥ देवदत्तामसौ दृष्ट्वा हीतः कष्टां दशां ययौ। अग्रेस्त्र्यपभ्राजना हि मृत्योरप्यधिका नृणाम् ॥४३॥ साऽप्यूचे मूलदेवोऽयमित्युक्तो यस्तदा त्वया । एवं कुर्या ममाऽपि त्वं देवायसनमीयुषः ॥४४॥ तदसि व्यसनं प्राप्तः प्राणसन्देहकारणम् । मुक्तोऽसि चार्यपुत्रेण नेदृक्षा: क्षुद्रघातिनः ॥४५॥ ततो विलक्षः स वणिक् पतित्वा पादयोस्तयोः । ऊचे सर्वापराधान्मे तितिक्षध्वं तदा कृतान ॥४५॥ रुष्टस्तेनापराधेन जितशत्रुमहीपतिः। प्रवेशमुज्जयिन्यां मे युष्मद्वाचा प्रदास्यति ॥४७॥
॥२२७॥