________________
योग
द्वितीय प्रकाशा
शास्त्रम् १२२६।।
भाण्डं भृत्वा ययौ शीघ्रं पारसकूलमण्डलम् ॥१३॥ दध्यौ च मूलदेवोऽपि विना मे देवदत्तया। भोज्येनालवणेनेव प्राज्यराज्यश्रियाऽपि किम् ॥१४॥ ततः स देवदत्ताया जितशत्रोश्च भूपतेः । चतुरं प्रेषयामास दूतं प्राभृतसंयुतम् ॥१५॥ गत्वोज्जयिन्यां दृतोऽपि जितशत्रु व्यजिज्ञपत् । देवतादत्तराज्यश्रीमूलदेवो वदत्यदः ॥१६॥ यथा मे देवदत्तायां प्रेम जानीथ तत्तथा । यद्यस्यै रोचते वोऽपि तदियं प्रेष्यतामिति ॥१७॥ ततोऽवददवन्तीशस्तेनेदं कियदर्थितम् । राज्ञा विक्रमराजेन भेदो राज्येऽपि नास्ति नः॥१८॥ आकार्य देवदत्तां च जगादोजयिनीपतिः । दिष्टया जाताऽसि भद्रे त्वं चिरात पूर्णमनोरथा ॥१९॥ राजा जज्ञे मूलदेवो देवतायाः प्रसादतः त्वामानेतुं च स प्रपीत्प्रधानपुरुषं निजम् ॥२०॥ ततस्त्वं तत्र गच्छेति प्रसादाज्जितशत्रुणा । आदिष्टा देवदत्तागाद्वेणातटपुरं क्रमात् ॥२१॥ राजा विक्रमराजोऽपि महोत्सवपुरःसरम् । स्वचेतसीव विपुले स्ववेश्मनि निनाय ताम् ॥२२॥ जिना_मर्चतस्तस्य सम्यक् पालयतः प्रजाः । दीव्यतो देवदत्तां च त्रिवर्गोऽभूदबाधितः ॥२३॥ इतश्च पारसकूलाद्वह्वात्तकेयवस्तुकः । आययावचलस्तत्र जलपूर्ण इवाम्बुदः ॥२४॥ लक्ष्मीमहत्वपिशुनैर्मणिमाक्तिकविद्युमैः । भृत्वा विशालं स स्थालं महीनाथमुपास्थितः ॥२५॥ अचलोऽयमिति क्षिप्रमुपलक्षितवान् नृपः दृष्ट्वा प्रायजन्मसम्बन्धमपि प्राज्ञाः स्मरन्ति हि॥२६॥ राजानं मृवदेवोऽयमित्यज्ञासीत्तु नाचलः । आतवेषं नटमपि स्थूलप्रज्ञा न जानते ॥२७|| कुतस्त्वमिति रज्ञोक्तः पारसादित्युवाच सः । ययाचे पञ्चकुलं च भाण्डालोकनकर्मणे ॥२८॥ कौतुकात्स्वयमेष्याम इत्युक्तो भूभुजा स तु । महाप्रसाद इत्यूचे कोपं को वेचि तादृशाम् ॥२९॥ ततः पञ्चकुलोपेतो ययौ राजा तदाश्रये । मजिष्ठापट्टसूत्रादि सोऽपि भाण्डमदर्शयत् ॥३०॥ भाण्डं
॥२२६॥