________________
योगशास्त्रम्
||९५ || पुरं महातूर्यवैः पूर्यमाणदिगन्तरम् । तत्प्राविशन्मूलदेवो राजराज इवालकाम् ॥९६॥ उत्तीर्णो राजहऽसौ सिंहासनमधिष्ठितः ||९७|| अथोचे देवता व्योम्नि देवतानां प्रसादतः । अयं विक्रमराजाख्यो ॥२२५॥ राजा जज्ञे कलानिधिः ||१८|| वर्त्तिष्यन्ते न येऽमुष्य शासने क्षितिशासितुः । तानहं निग्रहीष्यामि महीभृत इवाशनिः ||९९|| तद्गिरा विस्मितं भीतं सर्वं प्रकृतिमण्डलम् । यतेरिवेन्द्रियग्रामः सदा तस्य वशेऽभवत् ॥ २०० ॥ ततः स राजा विषयसुखान्यनुभवन् व्यधात् । प्रीतिमुज्जयिनीशेन मिथः संव्यवहारतः ॥१॥ तदानीं देवदत्ताऽपि मूलदेव विडम्बनाम् । तादृक्षीं प्रेक्ष्य साक्षेपा व्यब्रवीदचलं प्रति ॥२॥ किं ज्ञाता द्रव्यदर्पान्ध त्वया कुलगृहिण्यहम् । मुमूर्षो मूर्ख मन्द्गेहे व्यवाहार्षीर्यदीदृशम् ||३|| त्वयाऽस्मदीयसदने नागन्तव्यमतः परम् । इति निष्कास्य तं गेहात्समीपे नृपतेरगात् ||४|| तया च याचितो राजा स वरो दीयतामिति । यथेच्छं ब्रूहि यच्छामि तं येनेत्यवदन्नृप ||५|| सोचे मां प्रति नाज्ञाप्यो मूलदेवं विना पुमान् । वारणीयोऽचलश्चायमागच्छन्मम वेश्मनि ॥ ६ ॥ एवमस्त्विति राज्ञोक्ता ( जोक्त्वा ) हेतुः कोऽत्रेति पृष्टवान् । शशंस माधवी देवदत्तासंज्ञया ततः ||७|| जितशत्रुनृपः कोपाच्चलित भ्रूलतस्ततः । सार्थवाहं तमाहूय साक्षेपमिदमब्रवीत् ॥८॥ मत्पुरीमण्डनावेतौ रत्नभूतावरे त्वया । मूर्खेण धनमत्तेन ग्रावणीव निर्घापती ||९|| ततोऽमुष्यापराधस्य प्राणापहरणं तव । दण्डोऽस्त्विति नरेन्द्रोक्ते देवदत्ता न्यवारयत् ॥१०॥ त्वं यद्यप्यनया त्रतोऽधुना त्राणं तथापि ते । मूलदेवे समानीते भवेदित्यभ्यधान्नृपः ॥ ११ ॥ नृपं नत्वा ततो गत्वा सार्थवाहः प्रचक्रमे । नष्टरत्नमिवान्वेष्टुं मूलदेवं समन्ततः ||१२|| मूलदेवमपश्यन् स भीतो न्यूनतया तया
CHOREOGR FORES
EXOOOOOOO
द्वितीय
प्रकाशः
॥२२५॥