________________
योग
शास्त्रम्
॥२२४॥
प्रायेण फलति स्वप्न विचारस्यानुसारतः ॥ ७९ ॥ धूर्त्तोऽपि प्रातरारामे गत्वा पुष्पोच्चयादिना । अग्रीणान्मालिकं १ लोकंपूणं कर्मापि तादृशाम् ||८०| गृहीत्वा मालिकात्तस्मात्स पुष्पाणि फलानि च । शुचिर्भूत्वा ययौ वेश्म स्वमशास्त्रविपश्चितः ॥ ८१ ॥ मूलदेवस्ततो नत्वा दत्त्वा पुष्पफलानि च । उपाध्यायाय तज्ज्ञाय शशंस स्वममात्मनः ॥८२॥ मुदितः सोऽवदद्विद्वान्वत्स स्वमफलं तव । सुमुहूर्त्ते कथयिष्याम्यद्यास्माकं भवातिथिः ॥ ८३॥ मूलदेव स्नपयित्वा भोजयित्वा च गौरवात् । परिणाययितुं कन्यामुपाध्याय उपानयत् ||८४ ॥ बभाषे मूलदेवोऽपि ताताऽज्ञातकुलस्य मे । कन्यां प्रदास्यसि कथं विचारसि किं न हि || ८५ || उपाध्यायोऽप्युवाचैवं त्वन्मूर्त्यांऽपि कुलं गुणाः । ज्ञातास्तत्सर्वथा कन्या ममेयं परिणीयताम् ||८६|| तद्वाचा मूलदेवोऽपि कन्यकां तामुपायत । कार्यसिद्धेभविष्यन्त्याः प्रादुर्भुतमिवाननम् ||८७ || मध्ये दिनानां सप्तानां त्वं राजेह भविष्यसि । इति तस्य स्वप्नफलमुपाध्यायो न्यवेदयत् ||८८|| हृष्टस्तत्र वसन् धूर्त्तराजो गत्वा बहिः पुरात् । सुष्वाप चम्पकतले संप्राप्ते पञ्चमेऽहनि ||८९|| तदा च नगरे तस्मिन्नग्रेतनमहीपतिः । अपुत्रो निधनं प्राप निष्पाद इव पादपः ॥९०॥ मन्त्रोक्षिताः पुरीभाश्वच्छत्रभृङ्गारचामराः । भ्रमुः प्रापुर्न राज्याईं दुष्प्रापस्तादृशो जनः ॥ ९१ ॥ ततो वहिः पर्य टन्तो निकषा चम्पकद्रुमम् । अपश्यन्मूलदेवं ते नरदेवपदोचितम् ॥९२॥ हयेन हेषितं चक्रे गजेनोर्जितगर्जितम् भृङ्गारेण च तस्याऽर्घश्वामराभ्यां च वीजनम् ॥ ९३ || २पुण्डरीकं स्वर्णदण्डमण्डितं तस्य चोपरि । शरदभ्रमिवा दभ्रतडिद्दण्डमजृम्भत ॥९४॥ तं चाधिरोहयामास स्वस्कन्धे जयकुञ्जरः । स्वाम्याप्तिमुदितैर्लोकैश्चक्रे जयजयारवः (१) जनप्रीतिकरम् । (२) श्वेतच्छत्रम् ।
द्वितीय प्रकाशः
॥२२४॥