________________
योगशास्त्रम्
द्वितीय प्रकाश
॥२२३॥
विहितापरनामकः। विप्रोऽहं सदडो नामेत्युक्त्वा टक्कस्ततो ययौ ॥६॥ गच्छता मूलदेवेन ततो वेणातट प्रति । दृष्टः | १संवसथः ३कश्चिद्वसदावसथः पथि ॥६४॥ प्रविष्टस्तत्र भिक्षार्थ वामकुक्षिर्बुभुक्षया । भ्रमन्नासादयामास कुल्माषान् कुत्रचिद्गृहे ॥६५॥ ग्रामानिष्कामतस्तस्याभिमुखः कोऽप्यभून्मुनिः। मासक्षपणपुण्यात्मा पुण्यपुञ्ज इवाङ्गवान् ॥६६॥ तं दृष्ट्वा मुदितः सोऽभूदहो मे सुकृतोदयः। यन्मयाप्तमिदं पात्रं यानपात्रं भवोदधौ ॥६७॥ साधोः कुल्माषदानेन रत्नत्रितयशालिनः । उन्मीलतु चिरादध मद्विवेकतरोः फलम् ॥६८॥ कुल्माषान् साधवे दत्त्वा मृलदेवः पपाठ च । धन्यास्ते खलु येषां स्युः कुल्माषाः साधुपारणे ॥६९॥ तस्य भावनया हृष्टा वभाषे व्योम्नि देवता । अश्लोकेन याचस्व भद्र किं ते प्रदीयताम् ॥७०॥ प्रार्थयामास सद्यस्ता मूलदेवोऽपि देवताम् । गणिकादेवदत्तेभसहखं राज्यमस्तु मे ॥७१॥ एवमस्त्विति देव्यूचे मूलदेवोऽपि तं मुनिम् । वन्दित्वाऽथ ग्राममध्ये भिक्षित्वा बुभुजे स्वयम् ॥७२॥ मार्ग क्रामन् क्रमेणासौ प्राप वेणातटं पुरम् । सुष्वाप पान्थशालायां निद्रामुखमवाप च ॥७३॥ यामिन्याः पश्चिमे यामे स सुप्तः स्वममैक्षत । यत्पूर्णमण्डलश्चन्द्रः प्रविवेश मुखे मम ॥७४॥ तमेव स्वप्नमद्राक्षीत्कोऽपि कार्पटिकस्तदा । अन्यकापटिकानां च प्रबुद्धस्तमचीकथत् ॥७५॥ तेषु कार्पटिकेष्वेकः स्वप्नमेवं व्यचारयत् । अचिरेण लप्स्यसे त्वं सखण्डघृतमण्डकम् ॥७६॥ हृष्टः कार्पटिकः सोऽभूदेवं भूयादिति ब्रुवन् । जायेत बदरेणापि श्रृगालस्य महोत्सवः ॥७७॥ स्वप्नं नाचीकथत्तेषामज्ञानां धृतराट् निजम् । मृर्खा हि दर्शिते रत्ने दृषत्खण्डं प्रचक्षते ॥७८॥ मण्डकं कर्पटिः प्राप गृहाच्छादनपर्वणि
(१) ग्रामः । (२) बसतां प्राणिनामावसथो विश्रामस्थानम् ।
॥२२३॥