________________
योग
शास्त्रम् ારરા
प्रियसखीमिव प्राप महाटवीम् ||४५ || पारावारमिवापारां तितीर्षुस्तां महाटवीम् । सहायं चिन्तयामास तरण्डमिव धूर्त्तराट् ||४६|| कस्मादप्यागतोऽकस्मादभ्रादिव परिच्युतः । शम्बलस्थगिकां विभ्रत्कोऽपि को द्विजस्तदा ॥४७॥ असहायः सहायीयं तं विप्रं क्षिप्रमागतम् । वृद्धो यष्टिमिव प्राप्य मूलदेवो मुदं ययौ ॥४८॥ जगाद मूलदेवस्तं ममारण्ये प्रपेतुषः । आत्मच्छायाद्वितीयस्य दिष्ट्या मिलितवानसि ॥ ४९ ॥ स्वच्छन्दं वार्त्तयिष्यावस्तदावां द्विजसत्तम । मार्गखेदापहरणी विद्या वार्त्ता हि या पथि ॥ ५० ॥ दूरे कियति गन्तव्यं स्थाने जिगमिषा क ते । कथ्यतां भो महाभाग मार्गमैत्री वशीकुरु ॥५१॥ विप्रोऽप्याख्यद्गमिष्यामि पारेऽरण्यमिव स्थितम् । स्थानं
निधानाख्यं ब्रूहि त्वं कुत्र यास्यसि || ५२ || मूलदेवोऽब्रवीद्यास्याम्यहं वेणातटे पुरे । विप्रोऽप्यूचे तदेहि त्वमेकोऽध्वा दुरमावयोः || ५३ || ललाटन्तपतपने मध्याह्नेऽथ समागते । मिलिताभ्यां च गच्छद्भयां ताभ्यां प्रापि महासरः ॥५४॥ पाणिपादमुखं मूलदेवः प्रक्षाल्य वारिणा । निरन्तरतरुच्छाये भूतले समुपाविशत् ॥५५॥ स्थगिकायाः समाकृष्य सक्तनालोड्य वारिणा । एकोऽपि भोक्तुमारेभे टक्को रङ्क इव द्रुतम् ॥५६॥ धूर्त्तोऽप्यचिन्तयद सौ नाऽऽदौ
भोजनं ददौ । अतिक्षुधाऽऽतुरो भुङ्क्ते युक्तः सन् खलु दास्यति ॥५७॥ भुक्त्वा तत्रोत्थिते विप्रे बन्धा (घ्न ) ति स्थगि कामुखम् । दध्यौ धूर्त्तोऽपि यद्यद्य नादात्तच्छ्रवः प्रदास्यति ॥ ५८ ॥ तस्मिन्नदन्वा भुञ्जने मूल देवस्तदाशया ।। त्रीन्वासरानगमयन्नृणामाशा हि जीवितम् ॥ ५९ ॥ अटवीं तां परित्यज्य धूर्त्तराज द्विजोऽवदत् । स्वस्ति तुभ्यं महाभाग यास्याम्यहमितोऽधुना ॥ ६० ॥ तमूचे मूलदेवोऽपि त्वत्साहाय्यादियं मया । द्वादशयोजनायामा क्रोशवल्लङ्घिताऽटवी ॥ ६१॥ dra गमिष्यामि मूलदेवाभिधोऽस्म्यहम् । तत्र मे कथयेः कार्य कथ्यतां कि च नाम ते ॥ ६२॥ लोकैर्निर्घृणशर्मेति
द्वितीय
प्रकाशः
ારરા