________________
योगशास्त्रम्
॥२२१॥
द्वितीय प्रकाशः
॥२८॥ कुट्टिन्यवोचदादेशः प्रमाण जीवितेशितुः। पुत्रि किं न श्रुतं स्वामी यदिच्छति करोति तत् ॥२९॥ देवदत्ताऽब्रवीदार्य किमेतदुचितं तव । अदृष्यदेवदृष्येयं तूलिका यद्विनश्यति ॥३०॥ अचलोऽप्यवदद्भद्रे कार्पण्यं किमिदं तव । शरीरमपि यच्छन्ति पत्यर्थे त्वादृशः स्त्रियः ॥३१॥किं तेऽन्यास्तूलिका न स्युः पतिर्यस्याः किलाचलः । लवणेन स कि सीदेद्यस्य रत्नाकरः सखा ॥३२॥ ततो भाटीविवशया कारितो देवदत्तया । अभ्यगोद्वर्तनादीनि पर्यङ्कस्थित एव सः ॥३३॥ स्नप्यमाने ततस्तस्मिन्नीशे खलिजलादिना । मूलदेवश्चण्ड' इव भ्रियते स्म समन्ततः ॥३४॥ आजुहावाचलभटान् कुट्टिनी दृष्टिसंज्ञया । निदिदेशाचलं चाशु धूर्ताकर्षणकर्मणे ॥३५॥ कोपाटोपसमाविष्टो मूलदेवं ततोऽचलः । चकर्ष धृत्वा केशेषु द्रौपदीमिव कौरवः ॥३६॥ तं चोवाच नयज्ञोऽसि विद्वानसि सुधीरसि । कर्मणऽस्यानुरूपोऽध ब्रूहि कस्तेऽस्तु निग्रहः ॥३७॥ धनाधीनशरीरेयं वेश्या तां चेद्रिरंससे । ग्रामपट्टकवद्भरिधनेन न किमग्रहीः ॥३८॥ मूलदेवोऽपि निष्पन्दस्तदा मुकुलितेक्षणः। विफलीभूतफा लस्योऽवाह द्वीपिनस्तुलाम् ॥३९॥ एवं च चिन्तयामास सार्थवाहपतिस्ततः । न निग्राह्यो महात्माऽसौ दैवादेवं दशां गतः ॥४०॥ इति चोवाच मुक्तोऽद्य त्वमस्मादागसो मया । कृतज्ञो स्युपकर्तव्यं त्वयाऽपि समये मम ॥४१॥ मुक्तोऽथ तेन धृतशो वेश्मतो निर्ययौ ततः । तूर्ण तूर्ण परिक्रामन् रणाद्भग्न इव द्विपः॥४२॥ गत्वा पुरीपरिसरे सस्नौ सरसि विस्तृते । शरत्काल इव भेजे तत्क्षणात् क्षालिताम्बरः ॥४३॥ अचलस्यापकर्तु चोपकर्त च स धृतराट् । मनोरथरथारूढोऽचलद्वेणातटं अति ॥४४॥ द्वादशयोजनायामां स श्वापदकुलाकुलाम् । दुर्दुशायाः (१) ईश्वरस्य गणः-सेवकः चण्डनामा ।
॥२२१॥