________________
द्वितीय
योगशास्रम्
॥२२॥
कुदिन्यचिन्तयदहो महामोहान्धमानसा । मृगीव मृगतृष्णाम्भो धूर्तमेषाऽनुधावति ॥१२॥ स कोऽप्युपायः क्रियते येन निष्कास्यते पुरात् । अत्युष्णाजलसेकेन बिलादिव महोरगः ॥१३॥ कुहिनी मूलदेवस्योच्चाटनायाचलं जगौ । कर्त्तव्यः कृत्रिमो ग्रामगमनोपक्रमस्त्वया ॥१४॥ ग्रामे यास्यामीत्यलीकं सार्थवाह त्वमञ्जसा । कथयेर्देवदत्ताया विश्रब्धा सा यथा भवेत् ॥१६॥ ततो ग्रामान्तरगतं श्रुत्वा त्वां धूर्तपांसनः । निःशकं देवदत्तायाः स समीपमुपैष्यति ॥१६॥ देवदत्तन्तिके मूलदेवे दीव्यति निभैरम् । आगच्छेः सर्वसमग्र्या मत्सङ्केतेन सुन्दर ॥१७॥ ततस्तथा कथमपि त्वमेतमवमानयेः । यथैतां न भजेद्भयस्तित्तिरीमिव तित्तिरः ॥१८॥ तत्तथा प्रतिपद्याथ यास्यामि ग्राममित्यसौ । आख्याय देवदचाया द्रव्यं दत्त्वा च नियंयौ ॥१९॥ ततस्तस्या निरातङ्क मूलदेवे प्रवेशिते । आहास्त कुट्टिन्यचलं कुट्टाकभटवेष्टितम् ॥२०॥ देवदत्ता च सहसा प्रविशन्तं ददर्श तम् । मृलदेवं च खट्वाऽधो न्यधात्पत्रकरण्डवत् ॥२१॥ तथास्थितं मूलदेवं कुट्टिन्या ज्ञापितोऽचलः । पर्यके कृतपर्यको निषसाद स्मिताननः ॥२२॥ अवोचदचलस्तत्र कुर्वन् कैतवनाटितम् । देवदत्ते वयं श्रान्ताः स्नास्यामः प्रगुणीभव ॥२॥ देवदत्ताऽब्रवीदेवं विलक्षवितयस्मिता । स्नानयोग्यासने तर्हि स्नातुं पादोऽवधार्यताम् ॥२४॥ एवमुत्थाप्यमानोऽपि सादरं देवदत्तया विशेषतोऽभूत खट्वायामचलो निश्चलासनः ॥२५॥ शशाक धूर्तराजोऽपि स्थातुं गन्तुं च नो तदा । प्रायेण विगलन्त्येवास्वस्थे मनसि शक्तयः ॥२६॥ अवोचदचलो देवदत्ते स्वमो मयेक्षितः। पर्यकेऽस्मिन् कृताभ्यङ्गः सचेलस्नातवानहम् ॥२७॥ स्वप्नं सत्यापयिष्यामि तदर्थमहमागमम् । सत्यीकृतो ह्ययं स्वमः शुभोदाय जायते
113 Roll