________________
योगशास्त्रम्
॥२१९॥
ह्यहम् । धनानुरागिणी नास्मि किं त्वस्मि गुणरागिणी ॥ ९४ || अमुष्य द्यूतकारस्य गुणास्तिष्ठन्ति कीदृशाः । इति कोपाज्जनन्योक्ता देवदत्तेत्यभाषत ॥९५॥ धीरो वदान्यो विद्याविद्गुणरागी स्वयं गुणी । विशेषज्ञः शरण्योऽयं नामुं त्यक्ष्यामि तत् खलु ॥ ९६ ॥ ततश्च कुट्टिनी रुष्टा कूटजुष्टा प्रचक्रमे । उच्चाटयितुं तनयां स्वैरिणी स्वैरिणीमिव ॥९७॥ साऽदात्तयाऽर्थिते माल्ये निर्माल्यं शरके पयः । इक्षुखण्डे वंशखण्डे श्रीखण्डं नीपखण्डलम् ॥९८॥ सोपं देवदत्तोक्ता कुट्टिनी कुटिलाऽब्रवीत् । मा कुपः पुत्रि यादृक्षो यक्षस्तारग्बलिः किल ॥९९॥ लव कण्टकित किमालम्ब्य स्थितास्यमुम् । सर्वथा मूलदेवं तत्यजापात्रमिमं पतिम् ॥१००॥ आवादीदेवदत्तैव मातः किमिति मुह्यसि । पुमान् पात्रमपात्रं वा किमुच्येतापरीक्षितः || १|| परीक्षा क्रियतां तत्युक्ता साक्षेपमम्बया । मुदिता देवदत्तैवमादिदेश स्वचेटिकाम् ||२|| यदिक्षौ देवदत्ताया अभिलाषोऽद्य विद्यते । प्रेष्यन्तामिक्षवः सार्थवा हाचल ततस्त्वया ||३|| तयोक्तः सार्थवाहोऽपि धन्यमानी प्रमोदतः । शकटानीक्षुपूर्णानि प्रेषयामास तत्क्षणात् ||४|| हृष्टा कुट्टिन्युवाचैवमचलस्वामिनो हले । अचिन्तनीयमौदार्य पश्य चिन्तामणेरिव ॥५॥ विषण्णा देवदत्तोचे किमम्बाऽस्मि करेणुका । भक्षणायेक्षवः क्षिप्ता यत्समूलदलायकाः ||६|| आदिश्यतां मूलदेवोऽप्यस्मिन्नर्थे भुजिष्यया । विवेके ज्ञायते मातर्द्वयोरपि यथाऽन्तरम् ||७|| मूलदेवोऽपि चेटयोक्त इक्षनादाय पञ्चषान् । मूलाग्राणि त्यजन्मक्षु निस्ततक्ष विचक्षणः ||८|| कठोरत्वेन दुश्चर्वपर्वग्रन्थीन् परित्यजन् । द्व्यङ्गुला गण्डिकाचक्रे पीयूषस्येव कुण्डिकाः ॥९॥ चतुर्जातेन संस्कृत्य कर्पूरेणाधिवास्य च । शुलप्रोता वर्द्धमानसंपुटे प्राहिणोत्स ताः ॥१०॥ देवदत्ताऽपि ताः प्रेक्ष्य बभाषे शम्भलीमिति । धूर्त्तशाचलयोः पश्य स्वर्णरीयरिवान्तरम् ॥११॥
द्वितीय
प्रकाशः
॥२१९॥ ॥