________________
योगशास्त्रम्
द्वितीय प्रकाशा
li૨૨૮
दास्ये स्वामिन्नस्याभ्यनुज्ञया ॥७६॥ राजाऽप्यवोचत्तदियं महाभागानुमन्यताम् । धृतॊऽप्यवादीद्यदेव आज्ञापयति तत्कुरु ॥७७॥ अत्रान्तरे धूर्तराजा वीणां स्वयमवादयत् । हरन्मनांसि विश्वेषां विश्वावसुरिवापरः ॥७८|| ततो विमलसिंहेन बभाषे देव खेल्वयम् । मूलदेवश्छन्नरूपो नापरस्येदृशी कला ॥७९॥ विज्ञानातिशयस्यास्य प्रयोक्ता नापरः कचित् । मूलदेवं विना देव सर्वथाऽसौ स एव तत् ॥८॥ राजा जगाद यद्येवं तदाहो स्वं प्रदर्शय । दर्शने मूलदेवस्य रत्नस्येवास्मि कौतुकी ।।८१॥ गुलिकां मूलदेवोऽपि मुरवादाकृष्य तत्क्षणात् । व्यक्तोऽभूत्कान्तिमान्मेघनिर्मुक्त इव चन्द्रमाः ॥८२॥ साधु ज्ञातोऽसि विज्ञानिनिति सप्रेमभाषिणा । ततो विमल सिंहेन धूर्तसिंहः स सस्वजे ॥८॥ न्यपतन्मूवदेवोऽपि नृदेवस्य पदाब्जयोः। राजाऽपि तं प्रसादेन सगौरवमपूजयत् ॥८४॥ एवं च देवदत्ताऽपि तस्मिन्नत्यनुरागिणी । पुरूरवस्युर्वशीवान्वभूद्विषयजं सुखम् ॥८५॥ अतिष्ठन्मूलदेवोऽपि न विना घृतदेवनम् । भवितव्यं हि केनापि दोषेण गुणिनामपि ॥८६॥ ययाचे देवदत्ताऽपि धिग् द्युतं त्यज्यतामिति । नात्यजन्मूलदेवस्तत्प्रकृतिः खलु दुस्त्यजा ॥८७॥ तस्यां नगर्यामासीच्च धनेन धनदोपमः । सार्थवाहोऽचलो नाम मृाऽपर इव स्मरः ॥८८॥ आसक्तो देवदत्तायां मूलदेवाग्रतोऽपि सः । कृतस्वीकरणो भाटया बुभुजे तां निरन्तरम् ॥८९।। ईर्ष्या स मूलदेवाय महतीं वहति स्म च । अन्विष्यति स्म तच्छिद्राण्युद्रपवचिकीर्षया ॥९०॥ तच्छङ्कया मूलदेवोऽप्यगात्तद्वेश्मनि च्छलात् । पारवश्येऽप्यविच्छिन्नो रागः प्रायेण रागिणाम् ॥९१॥ देवदत्तां जनन्यूचे धूर्ततामृगधर्तकम् । निर्धन द्यूतकारं च मूलदेवं सुते त्यज ॥९२॥ प्रत्यहं विविधं द्रव्यं यच्छत्यस्मिन् रमस्व तत् । अचले निश्चलरती रम्भेव धनदात्मजे ॥९॥ देवदत्ता प्रत्युवाच मातरेकान्ततो
२१८॥