________________
द्वितीय
योगशास्त्रम्
॥२१७॥
॥५९॥ रहाकलारहस्यानि वयस्यीभूतयोस्तयोः । मिथः कथयतोरेकः क्षणः सुखमयो ययौ ॥६०॥ ततः सा व्याजहारैवं हतं मे हृदयं त्वया । गुणैर्लोकोत्तरैर्नाथ प्रार्थयेऽहं तथाऽप्यदः ॥६१॥ यथा पदमकार्षीस्त्वं हृदये मम सुन्दर । विदधीयास्तथा नित्यमस्मिन्नेव निकेतने ॥६२॥ मूलदेवोऽप्युवाचैवं निर्धनेषु विदेशिषु । अस्मा दृशेषु युष्माकमनुबन्धो न युज्यते ॥६॥ गुणानां पक्षपातेनानुरागो निर्धनेऽपि चेत् । वेश्यानामर्जनाभावात्कुलं सीदेत्तदाऽखिलम् ॥६४॥ बभाषे देवदत्तोऽपि को विदेशो भवादृशाम् । सर्वः स्वदेशो गुणिनां नृणां केसरिणा
मिव ॥६५॥ आत्मानमर्थयन्त्यर्थैर्खा हि बहिरेव नः । प्रवेशं न लभन्तेऽन्तर्विना त्वां .गुणमन्दिर ॥६६॥ | सर्वथा प्रतिपत्तव्यं त्वया सुभग मद्वचः। इत्युक्ते मूलदेवेनाप्यामेति जगदे वचः ॥६७।। ततश्च क्रीडतोः स्नेहा
द्विनोदैविविधस्तयोः । राजद्वाःस्थोऽब्रवीदेत्यागच्छ प्रेक्षाक्षणोऽधुना ॥६८॥ छन्नवेष मूलदेवं सा नीत्वा राजवेश्मनि । राज्ञोऽग्रे नृत्यमारेभे रम्भेव करणोज्ज्वलम् ।।६९॥ शक्रपाटहिकसमः १पाटप्रकटने पटुः । मूलदेवोऽपि निपुणोऽवादयत्पटहं ततः ॥७०॥ राजाऽरज्यत नृत्तेन तस्याः करणशालिना। प्रसादं मार्गयेत्यूचे तं च न्यासीचकार सा ॥७१॥ सा मूलदेवसहिता जगौ चानु ननत च । ददौ चास्यै नृपस्तुष्टः स्वाङ्गलग्नं विभूषणम्।।७२॥ पाटलीपुत्रराजस्य राजदौवारिकस्ततः । हृष्टो विमलसिंहाख्य इत्युवाच महीपतिम् ॥७३॥ अयं हि पाटलीपुत्रे मूलदेवस्य धीमतः । कलाप्रकर्षोंऽमुष्या वा न तृतीयस्य कस्यचित् ॥७४॥ ततः प्रदीयतां देव मूलदेवादनन्तरम् विज्ञानिषु च पट्टोऽस्य पताका नर्तकीषु च ॥७५॥ ततो राज्ञा तथा दत्ते साऽब्रवीदेष मे गुरुः । ततः प्रसादमा(१) पाटो विस्तारः।
॥२१७॥