________________
योग
शास्त्रम्
॥२२६॥
सोऽप्यजायत || ४३ ॥ स्मेराक्षी देवदत्ताऽपि पश्यन्ती वामनं मुदा । उपाध्यायस्य वैलक्ष्यमपनेतुमवोचत ||४४|| इदानीमुत्सुका यूयमुपाध्यायाः क्षणान्तरे । परिभाव्याभिधातव्यं प्रश्ने विज्ञानशालिनाम् ॥ ४५ ॥ देवदत्ते वयं यामो नाटयस्यावसरोऽधुना । सज्जस्व त्वमपीत्युक्त्वा विश्वभृतिस्ततो ययौ ॥ ४६ ॥ देवदत्ताऽप्यथादिक्षदावयोः स्नानहेतवे । अङ्गमर्दों निर्विमदं कश्चिदाहूयतामिति ॥ ४७ ॥ अजल्पद्धूर्त्तराजोऽपि व्याहार्षीर्माऽङ्गमर्दकम् सुभ्रू यद्यनुजानासि तवाभ्यङ्ग करोमि तत् ॥ ४८ ॥ किमेतदपि वेत्सीति तयोक्तः प्रत्युवाच सः । न जानामि स्थितः किन्तु तज्ज्ञानामहमन्तिके ||४८ || || ४९ || आदेशाद्देवदत्तायाः पकतैलान्यथाययुः । अभ्यङ्गं कर्तुमारेभे स मायावामनस्ततः ॥५०॥ मृदुमध्यदृढं स्थानौचित्यात् पाणिं प्रसारयन् । अने तस्या मूलदेवः सुखमद्वैतमादधे ॥५१॥ सर्वार्थेषु कलादाक्ष्यमीदृग्नान्यस्य कस्यचित् । न सामान्योऽयमित्यंहृयोः पतित्वा साऽब्रवीदिति ॥५२॥ गुणैरपि त्वमाख्यातः कोऽप्युत्कृष्टः पुमानिति । मयूरव्यंसकात्मानं किं गोपयसि मायया ॥ ५३॥ प्रसीद दर्शयात्मानं किं मोहयसि मां मुहुः । भक्तानामुपरोधेन साक्षात्स्युर्देवता अपि ॥ ५४ ॥ आकृष्य गुलिकामास्याद् रूपं तत्परिवर्त्त्य सः । प्रतिपेदे निजं रूपं शैलूष इव तत्क्षणात् ||५५ || अनङ्गमिव जाता तं लावण्यैकसागरम् । उद्वीक्ष्य विस्मता सोचे । प्रसादः साधु मे कृतः || ५६ || तस्यार्पयित्वा स्नानीयं पोतं प्रीता स्वपाणिना । अङ्गा भ्यङ्गव्यरचय द्देवदत्ताऽनुरागिणी ॥ ५७ ॥ खलिप्रक्षालनापूर्वं पिष्टातकसुगन्धिभिः । कवोष्णवारिधाराभिस्ततो द्वापि सस्रतुः ||५८|| देवदृष्ये देवदत्तोपनीते पर्य्यधत्त सः । सुगन्ध्याढ्यानि भोज्यानि बुभुजाते समं च तौ (१) निविमर्दः इति वा पाठः (२) वनम् ।
द्वितीय प्रकाशः
॥२१६॥