________________
योगशास्त्रम् ॥२१५ ॥
SETOHOO
प्रशशंस तम् ॥ २६ ॥ स्मित्वाऽवदन्मूलदेवोऽप्यहो उज्जयिनीजनः । जानात्यत्यन्तनिपुणो गुणागुणाविवेचनम् ॥ २७ ॥ साशङ्का साऽयुवाचैव किमत्र क्षूणमस्त्यहो । छेकछेकप्रशंसायामुपहासं हि शङ्कते ॥ २८ ॥ सोप्याचचक्षे किं क्षुणमस्ति कापि भवादृशाम् । सगर्भा किन्त्वसौ तन्त्री किश्च वंशोऽपि शल्यवान् ॥ २९ ॥ कथं ज्ञायत इत्युक्तस्तयाऽऽदाय स वल्लकीम् । वंशादश्मानमाकृष्य तन्त्र्याः केशमदर्शयत् ॥ ३० ॥ समारचथ्य तां वीणां ततः स्वयमवादयत् । श्रोतृकर्णेषु पीयूषच्छटामिव परीक्षिपन् ॥ ३१ ॥ देवदत्ता - aarनैव सामान्यस्त्वं कलानिधे । नररूपं प्रपेदाना साक्षादसि सरस्वती ।। ६२ ।। वीणाकारश्चरणयेोः प्रणिपत्ये त्यवोचत । स्वामिन् शिक्षे भवत्पार्श्वे वीणावाद्यं प्रसीद मे ||३३|| मूलदेवो जगादैवं सम्यग् जानामि न ह्यहम् किन्तु जानामि तान् ये हि सम्यग् जानन्ति वल्लकीम् ॥ ३४ ॥ के नाम ते क सन्तीति पृष्टोऽसौ देवदत्तया । अवोचदस्ति पूर्वस्यां पाटलीपुत्रपत्तनम् ॥ ३५ ॥ तस्मिन् विक्रमसेनोऽस्ति कलाचार्यो महागुणः । मूलदेवोऽहं च तस्य सदाप्यासन्नसेवकः || ३६ || अत्रान्तरे विश्वभूतिर्नाट्याचार्यः समागतः । साक्षाद्भरत इत्यस्मै कथितो देवदत्तया ॥ ३७|| मूलदेवोऽप्येवमूचे सत्यमेवायमीदृशः । ग्राहिताभिः कलां युष्मादृशीभिरपि लक्ष्यते ॥ ३९ ॥ विश्वभूतिरुपक्रान्ते विचारे भारते ततः । तं खर्व इत्यवाज्ञासी बाह्यार्थज्ञा हि तादृशाः || ३९ ॥ मेने च धूर्त्तराजेन विद्वन्मान्ययमस्य तत् । ताम्रस्वर्णालङ्करणस्येवान्तदर्शयाम्यहम् ||४०|| स्वच्छन्द भरते तस्य गल्भमानस्य धूर्तराट् । पूर्वापरविरोधाख्यं व्याख्याने दोषमग्रहीत् ॥ ४१ ॥ विश्वभूतिस्ततः कोपाद संबद्धमभाषत । प्राज्ञैः पृष्टा - पाध्यायाश्छादयन्त्यज्ञतां रुषा ॥ ४२ ॥ त्वमेवं नाटयेर्नाटयाचार्य नारीषु नान्दतः । हसितो मूलदेवेन तुष्णीकः
द्वितीय
प्रकाशः
॥२१५॥