________________
योगशाखम् १२१४॥
द्वितीय प्रकाशा
शलैः । दत्तत्रपा रतेर्देवदत्तेति गणिकोत्तमा ॥९॥ गुणः कलावतां यो यः प्रकृष्टा तत्र तत्र सा । छेकाया रब्जने तस्याः प्रतिच्छेको न कोऽप्यभूत्॥१०॥ मूलदेवस्ततस्तस्याः क्षोभार्थ तगृहान्तिके। प्रभाते गातुमारेमे प्रत्यक्ष इव तुम्बरुः ॥११॥ आकर्ण्य देवदत्ताऽपि कोऽप्येष मधुरो ध्वनिः। कस्येति विस्मयादास्याऽन्वेषयामास तं बहिः ॥१२॥ शशंसागत्य सा देवि गन्धर्वः कोऽपि गायति । मृत्यैव वामनः पूर्णगुणः पुनरवामनः ॥१३॥ देवदत्ता ततः कुब्जां माधवीं नाम चेटिकाम् । प्रजिघाय तमाहातुं प्रायो वेश्याः कलाप्रियाः ॥१४॥ सा गत्वा तं जगादेदं महाभाग कलानिधे । देवदत्ता स्वामिनी मे त्वामाहयति गौरवात् ॥१५॥ मूलदेवोऽवदद्गच्छ नागमिष्याभि कुब्जिके । कुट्टिनीवश्यवेश्यानां स्ववशो वेश्म को विशेत् ॥१६॥ व्याघुटन्तीं विनोदेच्छुः कलाकौशलयोगतः। स आस्फाल्य ऋजूचक्रे तां कुब्जीमब्जनालवत् ।। १७ ।। वपुर्नवमिवासाद्य सानन्दा साऽपि चेटिका । उपेत्य देवदत्तायै तच्चेष्टितमचीकथत् ॥ १८ ॥ देवदत्तवरेणेव देवदत्ताऽपि तेन ताम् । कुब्जामृतां वीक्ष्य परम प्राप विस्मयम् ॥१६॥ देवदत्ता ततोऽवादीदीदृक्षमुपकारिणम् । निजालिमपि च्छित्वा तमेकच्छेकमानय ॥२०॥ ततो गत्वा समभ्यर्थ्य चाटुभिश्चतुरोचितैः अचालि वेश्माभिमुखं धृतराजो भुजिष्यया ॥२१॥ तया निर्दिश्यमानावा प्रविवेश निवेशनम् । ततोऽसौ देवदत्ताया राधाया इव माधवः ॥२२॥ तं वामनमपि प्रेक्ष्य कान्तिलावण्यशालिनम् । सा मन्वाना मुर छन्नमुपावेशयदासने ॥२३॥ मिथो हृदयसंवादिसंलापसुभगा ततः। तयोः प्रववृते गोष्ठी तुल्य वैदग्ध्यशालिनोः ॥२४॥ अथाऽऽगात्तत्र कोऽप्येको वीणाकारः प्रवीणधीः वीणामवीवदत्तेन देवदत्ताऽतिकौतुकात् ।।२५॥ वल्लकी वादयन्तं च व्यक्तिग्रामश्रुतिस्वराम् । धूनयन्ती शिरो देवदत्ताऽपि
॥२१४॥