________________
योगशास्त्रम्
द्वितीय प्रकाशा
॥२१॥
राजदण्डभयाद्वा । यदाहुःचौरश्चौरापको मन्त्री भेदज्ञः काणकक्रयी । स्थानदो भक्तदश्चैव चौरः सप्तविधः स्मृतः ॥१॥ तस्करैरिति तदेव चौयं कुर्वन्तीत्येवंशीलास्तस्करास्तैः ॥७१।।
स्तेयप्रवृत्तानां तनिवृत्तानां च दोषान् गुणांश्च प्रत्येकं दृष्टान्तद्वारेणाहPA संबन्ध्यपि निगृह्यत चौर्यान्मण्डिकवन्नृपैः । चौरोऽपि त्यक्तचौर्यः स्यात्स्वर्गभाग्रौहिणेयवत्।७२
दृष्टान्तद्वयमपि संप्रदायगम्यं । स चायम्-- __ अलब्धमध्यमम्भोधेरिवाम्भो बहुरत्नभूः । अस्तीह पाटलीपुत्रं नाम गौडेषु पत्तनम् ॥१॥ कलाकलापनिलयः साहसस्यैकमन्दिरम् । राजपुत्रो मूलदेवस्तत्र मूलं धियामभूत् ॥२॥ स धूर्तविद्यैकधवः१ कृपणानाथबान्धवः । कटचेष्टामधुरिपू रूपलावण्यमन्मथः ॥३॥ चौरे चौरः साधौ साधुर्वके वक्र ऋजाजुः । ग्राम्ये ग्राम्यश्छेके रछेको विटे विटो भटे भटः ॥४॥ द्यूतकारे इतकारो वात्तिके वार्तिकश्च सः । तत्काल स्फटिकाश्मेव जग्राह पररूपताम् ॥५॥ चित्रैः कौतूहलैस्तत्र लोकं विस्माययनसौ । विद्याधर इव स्वैरं चचार चतुराग्रणीः ॥६॥ इतकव्यसनासक्तिदोषात्पित्राऽपमानितः । द्यसत्पुरश्रीजयिन्यामुज्जयिन्यां जगाम सः ॥७॥ गुलिकायाः प्रयोगेण स भूत्वा कुब्जवामनः । पौरान विस्माययंस्तत्र कलाभिः ख्यातिमासदत् ॥८॥ तत्रासीपलावण्यकलाविज्ञानकौ१ धवः पतिः ।
॥२१॥