________________
योगशास्त्रम्
द्वितीय प्रकाशा
अथ हिंसाकारिभ्योऽपि स्तेयकारिणो बहुदोषत्वमाह-- | एकस्यैकं क्षणं दुःख मार्यमाणस्य जायते । सपुत्रपौत्रस्य पुनर्यावज्जीव हृते धने ॥६॥
एकस्य न तु बहूनां एक क्षणं न तु बहुकालं, दुःखमसातं, मार्यमाणस्य हिंस्यमानस्य । स्तेयकारिणा त्वपहृते धने परस्य सपुत्रपौत्रस्य, न त्वेकस्य, यावज्जीवं न त्वेकं क्षणं, दुःखं जायत इति संबन्धः ॥६८॥
उक्तमपि स्तेयफलं प्रपञ्चेनाहचार्यपापद्रुमस्येह वधवन्धादिकं फलम् । जायते परलोके तु फल नरकवेदना ॥६९॥
चौ-त्पापं तदेव द्रुमस्तस्येह लोके फलं वधबन्धादिकं, परलोके तु फलं नरकभाविनी वेदना ॥६९॥
अथ कदाचित्प्रमादात् स्तेयकारी नृपतिभिन नियत तथाप्यस्वास्थ्यलक्षणमैहिकं फलमवस्थितमेव इत्याहदिवसे वा रजन्यां वा स्वप्ने वाजागरेऽपि वा । सशल्य इव चौर्येण नैति स्वास्थ्यं नरः क्वचित्७०
स्वमः स्वापः, जागरो निद्राया अभावः, चौर्येण हेतुना कचिदपि स्थाने ॥७॥
न केवलं स्तेयक: स्वास्थ्याभाव एव किन्तु बन्धुभिः परित्यागोऽपीत्याह| मित्रपुत्रकलत्राणि भ्रोतरः पितरोऽपि हि । संसजन्ति क्षणमपि न म्लेच्छैरिव तस्करैः ७१
पिता जनकः, पितृतुल्याः पितरः, पिता च पितरश्च पितरः न संसजन्ति न मिलन्ति पापभयात् । यदाहुःब्रह्महत्या सुरापाणं स्तेयं गुर्वगनागमः। महान्ति पाताकान्याहुस्तत्संसर्ग च पश्चमम् ॥१॥
॥२१२॥