________________
योगशास्त्रम् ૨૦૮
द्वितीय प्रकाशा
मृगानिव ॥६॥ ऋतमप्यनृतं परव्यथा-करणेनेदमुदीरयन वचः । परिपूर्य निजायुरुल्वणं, नरक कौशिकतापसो ययौ ॥७॥६॥
अल्पमप्यसत्यवचनं प्रतिषेधितुं महदसत्यं वदतः परिदेवयतेअल्पादपि मृणीवादाद्रौरवादिषु समवः । अन्यथा वदतां जनीं वाचं त्वहह का गतिः॥६२॥
अल्पादप्यैहिकार्थविषयत्वेन स्तोकादपि मृषावादादसत्याद्रौरवादिषु रौरवमहारौरवाप्रभृतिषु नरकावासेषु संभव उत्पत्तिः, लोकप्रसिद्धत्वाद्रौरवग्रहणम् । अन्यथा सर्वनरकेष्वित्युच्येत । अन्यथा विपरीतार्थतया जेनी वाचं वदतामतीवासत्यवादिनां कुर्तीथिकानां स्वयथ्यानां च निववादीनां का गतिर्नरकादप्रधिका तेषां गतिः प्रामोतीत्यर्थः । अहहेति खेदे अशक्यप्रतीकाराः परिदेवतीयाः खल्वेत इति । यदाह
अहह सयलनपावाहिं वितहपनवणमणुमवि दुरंत । जं मिरिइभवतदज्जियदुक्कयअवसेसलेसवसा ॥१॥ सुरथुयगुणो वि तित्थंकरो वि तिहुयणअतुल्लमल्लोवि । गोवाइहिं वि बहुसो कथिओ तिजयपहु त सि ॥२॥ ३थीगोभणभूर्णतगा वि केवि इह दिढपहाराई । बहुपावा वि पसिदा सिद्धा किर तम्मि चेव भवे ॥३॥६॥ (१) अहह सकलान्यपापेभ्यो वितथप्रज्ञापनमण्वपि दुरन्तम् । यन्मरीचिभवतदर्जितदुष्कृतावशेषलेशवशात् ॥१॥ (२) सुरस्तुतगुणोऽपि तीर्थकरोऽपि त्रिभुवनातुल्यमल्लोऽपि । गोपादिभिरपि बहुशः कथितः त्रिजगत्प्रभुस्त्वमसि ॥२॥ (३) स्त्रीगोब्राह्मणभ्रुणान्तका अपि केऽपि इह दृढप्रहार्यादयः। बहुपापा अपि प्रसिद्धाः सिद्धाः किल तस्मिन्नेव भवे ॥३॥
ર૦૮ના