________________
योगशास्त्रम्
द्वितीय प्रकाशः
॥२०॥
असत्यवादिनो निन्दित्वा सत्यवादिनः स्तौतिज्ञानचारित्रयोर्मूलं सत्यमेव वदन्ति ये । धात्री पवित्रीक्रियते तेषां चरणरेणुभिः ॥६३॥
ज्ञानचारित्रयोनिक्रिययोमूलं कारणं यत्सत्यं तदेव वदन्ति ये, ज्ञानचारित्रग्रहणं 'नाणकिरियाहि मोक्खो' इति भगवद्भाष्यकारवचनानुवादार्थ ज्ञानग्रहणेन दर्शनमप्याक्षिप्यते। दर्शनमन्तरेण ज्ञानस्याज्ञानत्वात् मिथ्यादृष्टिहि सत्त्वासत्त्वे वैपरीत्येन जानाति, भवहेतुश्च तज्ज्ञानं यदृच्छया चार्थनिरपेक्षमुपलभ्यते, न च ज्ञानफलमस्य । यदाइ--
२सयसयविसेसणाओ भवहेउ जइच्छओपलंभाओ। नाणफलाभावाओ मिच्छदिहिस्स अणाणं ॥१॥ स्पष्टमन्यत् ॥६॥
सत्यवादिनामैहिकमपि प्रभावं दर्शयति-- अलीकं ये न भाषन्ते सत्यव्रतमहाधनाः। नापराद्धमलं तेभ्यो भूतप्रेतोरगादयः ॥६४॥
भूता भूतोपलक्षिता व्यन्तराः प्रेताः पितरो ये स्वसंबन्धिनो मनुष्यान् पीडयन्ति भूतप्रेतग्रहणं भुवनपत्यादीनामुपलक्षणार्थम् । उरगाः सर्पाः आदिग्रहणाद् व्याघ्रादीनां परिग्रहः । (१) "ज्ञानक्रियाभ्यां मोक्षः" (२) सदसदविशेषणात् भवहेतुर्यदृच्छोपलम्भात् । ज्ञानफलाभावामिथ्यादृष्टेरज्ञानम् ॥१॥
॥२०॥