________________
योगशास्त्रम्
द्वितीय
मक
॥२०७॥
इति वसुनृपतेरसत्यवाचः, फलमाकर्ण्य जिनोक्तिविद्धकर्णः । कथमप्युपरोधतोऽपि जल्पे-दनृतं प्राणितसंशयेऽपि नैव ॥७१॥६०॥
॥ इति नारदपर्वतकथानकम् ॥ . सद्भयो हितं सत्यमिति व्युत्पत्त्या अवितथमपि परपीडाकरं वचनमसत्यमेवाहितत्वादिति सत्यमपीदृशं न भाषेतेत्याहन सत्यमपि भाषेत परपीडाकरं वचः। लोकेऽपि श्रूयते यस्मात् कौशिको नरकं गतः ॥६१॥
__ सत्यमवितथं लोकरूढया परमार्थतस्तु परपीडाकरत्वादसत्यमेवेत्यर्थः, तन्न भाषेत; तद्भाषणानरकगमनश्रुतेः। अत्रार्थे लौकिकं दृष्टान्तमाह-लोकेऽपि समयान्तरेऽपि श्रूयते निशम्यते परपीडाकरसत्यभाषणेन कौशिकौ नरकं गत इति । कौशिकस्तु संप्रदायगम्यः, स चायम्आसीत्सत्यधनः कोऽपि कौशिको नाम तापसः। अपास्य ग्रामसंवासमनुगडमुवास सः ॥१॥ कन्दमूलफलाहारो निर्ममो निष्परिग्रहः। सत्यवादितया प्राप प्रसिद्धि परमामसौ ॥२॥ मुषित्वा ग्राममन्येचुर्दस्यवस्तस्य पश्यतः। आश्रमं निकषा जग्मुर्वनं बिलमिवोरगाः ॥३॥ तेषामनुपदिनस्तु ग्राम्याः पप्रच्छुरेत्य तम् । सत्यवाद्यसि तद्बुडि तस्कराः कुत्र वव्रजुः ॥४॥ धर्मतत्त्वानभिज्ञोऽथ कथयामास कौशिकः । घने तरुनिकुठजेऽस्मिन् दस्यवः प्राविशन्निति ॥५॥ तस्योपदेशात्सम्बह्य प्रामीणाः शस्त्रपाणयः । वनं प्रविश्य निर्जघ्नुर्दस्यून् ब्याधा
Row